________________
10
११४]
[दीपालिकापर्वसंग्रहः ॥ सप्तमः शङ्खजीवस्तु तथा नाम्नोदयो जिनः । आनन्दात्मा जिनो भावी पेढालसंज्ञितोऽष्टमः ॥३३३॥ भावी सुनन्दजीवस्तु नवमः पोट्टिलाह्वयः । शतकात्मा दशमस्तु शतकीर्तिजिनाधिपः ॥३३४।। देवक्या भविता चात्मै-कादशो मुनिसुव्रतः । जीवस्तु वासुदेवस्य तीर्थकृद् द्वादशोऽममः ॥३३५।। सत्यकेर्भवितात्माईन् निष्कषायस्त्रयोदशः । जीवस्तु बलदेवस्य निष्पुलाकश्चतुर्दशः ॥३३६।। पञ्चदशो जिनो भावी सुलसात्माऽथ निर्ममः । तीर्थकृद्रोहिणी जीवः षोडशश्चित्रगुप्तकः ॥३३७।। रेवत्यात्मा समाधिस्तु भावी सप्तदशो जिनः । जिनः शतालिनो जीवोऽष्टादशः संवराह्वयः ॥३३८।। द्वीपायनस्य जीवश्चैकोनविंशो यशोधरः । कर्णजीवो जिनो विंशो विजयाख्यो भविष्यति ॥३३९।। नारदात्मा पुनर्मल्ल एकविंशो जिनोत्तमः । अम्बडात्मा जिनो भावी द्वाविंशो देवनामतः ॥३४०।। अमरात्मा त्रयोविंशोऽनन्तवीर्याभिधो जिनः । स्वातिबुद्धजीवो भद्रश्चतुर्विंशो भविष्यति ॥३४१॥ आयुः-प्रमाण-कल्याणा-न्तर-लाञ्छन-वर्णकाः । एते पश्चानुपूर्व्या स्युर्वर्तमानजिनैः समाः ३४२।। दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । 'श्रीचन्द्रनाम: श्रीभूतिः श्रीसोमः पद्मसंज्ञितः ॥३४३।। महापद्मो दर्शनाख्यो विमलोऽमलवाहनः । भरतेऽरिष्टनामा च भाविनश्चक्रवर्तिनः ॥३४४|| नन्दिश्च नन्दिमित्राख्यो नाम्ना सुन्दरबाहुकः । महाबाहू रेतिबलो महाबलो बलस्तथा ॥३४५।। १. श्रीदन्तः-भावलोकप्रकाशे ।
20
25
D:\chandan/new/kalp-1/pm5\3rd proof