________________
दीपालिकाकल्पः ॥]
[११३ तद्वीक्ष्य निस्सरिष्यन्ति बिलेभ्यो बिलवासिनः । वर्द्धमान-वपू-रूप-बल-जीवितसम्पदः ॥३२०।। पुष्प-धान्य-फला-हारा-स्त्यक्ष्यन्त्यभक्ष्यभक्षणम् । गतरोगा भविष्यन्ति सुखा-वाता-जलर्तवः ॥३२१।। द्वितीयारकपर्यन्ते मध्यदेशेऽवनीतले । भविष्यन्ति कुलकराः सप्तामी क्रमतो यथा ॥३२२।। विमलवाहनाह्वानः सुदामा सङ्गमस्तथा । सुपार्यो दत्त-सुमुखौ सम्मुचिश्चेति नामतः ॥३२३।। जातजातिस्मृतिस्तेषु राजा विमलवाहनः । राज्यस्थितिकृते ग्राम-पुरादीन् स्थापयिष्यति ॥३२४॥ गजाश्वरथपत्त्यादीन् ग्राहयिष्यति सेवकैः । अन्नपाकविधिं वह्ना-वुत्पन्ने सोपदेक्ष्यति ॥३२५।। व्यवहारप्रवृत्त्यर्थं द्वासप्ततिकला लिपीः । शतशिल्पानि लोकानां स भूप उपदेक्ष्यति ॥३२६।। सैकोननवतिपक्षेऽथोत्सर्पिण्यरयुगे गते । शतद्वारपुरे रम्ये सम्मुचेरवनीपतेः ॥३२७।। भद्रादेव्याश्चतुर्दश-स्वप्नसूचितः सुतः । कृतजन्मोत्सवो देवैः पद्मनाभाऽभिधो जनः ॥३२८।। सप्तहस्ततनुः स्वर्ण-दीधितिः सिंहलाञ्छनः । द्वासप्ततिसमायुष्कः श्रेणिकात्मा भविष्यति ॥३२९॥ त्रिभिर्विशेषकम् ॥ 20 पद्मनाभजिनाधीशा-दनन्तरजिनेश्वरः । सूरदेवाभिधः ख्यातः सुपाश्र्वाऽत्मा निरञ्जनः ॥३३०॥ उदायिजीवस्तृतीयः सुपावोऽथ जिनेश्वरः । भविता पोट्टिलो जीव-स्तुर्यः स्वयंप्रभो जिनः ॥३३१॥ जीवो दृढायुषो भावी सर्वानुभूतिः पञ्चमः ।
कीर्तिजीवो जिनः षष्ठ-स्तथा देवश्रुताह्वयः ॥३३२॥ १. महावीर प्रभुना काका । २. श्रेणिक पुत्र ।
25
D:\chandan/new/kalp-1/pm5\3rd proof