________________
5
10
15
20
25
११२]
[ दीपालिकापर्वसंग्रहः ॥
अत्युग्रशीततापाभ्यां क्षयं लोको गमिष्यति । अंगारमर्मराभा भू-र्भस्मरूपा भविष्यति ॥ ३०७|| भस्माऽऽ - म्ल - मुर्मुर - क्षार - विषा-ग्न्य- शनि - तोयदाः । वर्षिष्यन्ति सप्त - सप्त-दिवसानि पृथक् पृथक् ||३०८|| कास- कुष्ट - ज्वर-श्वासैः क्षयं लोकः प्रयास्यति । भविष्यति समं सर्वं गिरिगर्त्ताऽऽपगादिकम् ॥३०९|| वैताढ्यमूले तस्यैव द्वासप्तति बिलेषु च । गङ्गा-सिन्धुबिलेष्वेवं स्थास्यन्ति पशु - मानवाः || ३१०॥ रथाङ्गमध्यतुल्यौघ-गङ्गा-सिन्धुजलोद्भवैः ।
निशि कृष्टैः सूर्यपक्वै-स्तेषां मत्स्यादिर्भिर्घसिः ||३११। निर्लज्जा वस्त्ररहिता-रेनिमाना नराः स्त्रियः । नृणां विंशतिरद्वानि स्त्रीणां षोडशजीवितम् ॥३१२॥ गर्भं धास्यन्ति षड्वर्षाः स्त्रियो दुष्प्रसवास्तदा । द्रक्ष्यन्ति पुत्रपुत्रादीन् विंशत्यद्वायुषो नराः ॥३१३॥ कषायोग्राः पितृमातृ-विवेकविकला नराः । षष्ठारे भाविनो वर्ष - सहस्राण्येकविंशतिः ॥३१४॥ भरतेष्वैरवतेषु देशसु दुःषमाः समाः । उत्सर्पिण्यां प्रथमाऽर - एतत्तुल्यो भविष्यति ॥३१५॥ उत्सर्पिण्यां प्रथमारे षष्ठतुल्ये गते सति । प्रशान्तोपप्लवावर्तो द्वितीयाऽरो लगिष्यति ॥३१६|| लग्ने तत्राम्बुदाः पञ्च वर्षिष्यन्ति क्रमादमी । तेष्वाद्यः पुष्करावर्तो भूतापमपनेष्यति ||३१७|| क्षीरोदः सस्यनिर्माता स्नेहकर्त्ता घृतोदकः । शुद्धोद औषधीहेतू - रसोदो रसकृत् क्षितौ ॥ ३१८॥ पञ्चत्रिंशद्दिनान्यब्द-वृष्टिरेवं भविष्यति ।
द्रुमौ - षधी - लता - वल्ली - सस्य उत्पत्स्यते स्वयम् ॥३१९॥ १. बद्धमुष्टिरसौ रत्निः । २. पञ्चभरत - पञ्चैरवतयोः मिलित्वा दश क्षेत्रेषु ।
D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof