SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 10 १०४] [दीपालिकापर्वसंग्रहः ॥ विज्ञानेन-विवेकेन-धैर्येण-राज्यलीलया । सोऽद्वितीयो नृपो भावी महासत्वोचितैर्गुणैः ॥२१०॥ युग्मम् ॥ कौबेरीमातुरुष्कं स प्राचीमात्रिदशापगाम् । याम्यामाविन्ध्यमावाद्धि-पश्चिमां साधयिष्यति ॥२११।। एकादशशता ११०० नीभा रथास्तस्यायुत १०००० प्रमाः । एकादशहया लक्षाः ११००००० पत्त्यष्टादशलक्षकाः १८०००००।२१२।। सोऽन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । श्रीहेमचन्द्रमाचार्यं वन्दिता मेदिनीपतिः ॥२१३।। निशम्य रम्यश्रीधर्मो-पदेशं तन्मुखान्नृपः । श्राद्धव्रतानि सम्यक्त्व-सहितानि प्रपत्स्यते ॥२१४।। अपूजितेषु देवेषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नोपासकव्रतः ॥२१५।। प्रतिद्रङ्ग प्रतिग्रामं प्रायेण स प्रभावकः । निर्मास्यति महीमेतां जिनप्रासादमण्डिताम् ॥२१६।। सैकदा श्रीहेमसूरि-मुखात्तीर्थकथाक्षणे जीवतः । स्वामिनो मूर्तेः सम्बन्धं निशमिष्यति ॥२१७।। ततो वीतभयस्थाने धूलिदुर्गं खनं खनम् । नरैराप्तैः प्रतिमां तां स प्रादुष्कारयिष्यति ॥२१८।। प्रतिमां पत्तने नीत्वा प्रासादस्थां विधाय सः । 20 मन्यते पुण्यधी/रः साक्षाद्वीरजिनेश्वरम् ॥२१९।। तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥२२०।। शासनं तादृशं तस्यै सोऽपि भूपः प्रदास्यति । वन्दिष्यते च तां नित्यं महापूजापुरस्सरम् ॥२२१।। 25 सदा स्वदारासंतोषी त्रिधा वर्षासु शीलवान् । शीलस्य मनसा भङ्गे सोपवासं करिष्यति ॥२२२॥ १. उत्तरमां शीलारस उत्पत्तिस्थान सुधी । २. पूर्वमां गंगा नदी सुधी । ३. वर्तमान भेरा नामथी सिंधुसौवीरदेशमां । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy