SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १००] [ दीपालिकापर्वसंग्रहः ॥ कस्यापि धनिनः कन्यां दत्त्वा लात्वा ततो धनम् । स्रक्षन्ति निर्वाहमिदं गोवत्साधीतिजं फलम् ॥१५७।। ततोऽग्रतो गतेनाऽथ युधिष्ठिरमहीभुजा । समश्रेणिस्थितं दृष्टं जलपूर्णसरस्त्रयम् ॥१५८॥ तटाकादेकतस्तत्रोत्प्लुत्य त्यक्त्वान्तरा सरः । दृष्टास्तृतीयकासारे पतन्तो भूभृतोर्मयः ॥१५९॥ तद्वीक्ष्य विस्मतः प्राह विप्रान् किमिदमद्भुतम् । ते विमृश्य जगुर्भाविस्वरूपं ज्ञापयत्यदः ॥ १६०॥ यथासन्नं सरस्त्यक्त्वा तृतीयं वीचयः श्रिताः । निजांस्त्यक्त्वा तथाऽन्येषु लोकः प्रीतिं करिष्यति ॥१६१॥ नृपेणाऽग्रगतेनाऽथ जलार्द्रवालुकोत्करैः । मानवै रज्जवो व्यूता दृष्टा भग्नाः प्रभञ्जनैः || १६२॥ निरीक्ष्येदं द्विजाः पृष्टाः फलमाहुर्नरा धनम् । कृष्यादिभिर्महाक्लेश-रर्जिष्यन्ति कलौ युगे ॥१६३॥ तदग्नि- चोर- दायाद - राजदण्ड - करादिभिः । नरैर्यत्नेन संरक्ष्यमाणं क्षिप्रं विनङ्क्ष्यति ॥१६४॥ पुनरग्रे प्रयातेन धर्मपुत्रेण वीक्षितम् । प्रवाहोल्लुठितं नीरं निपतन् कूपकन्दरे ॥ १६५ ॥ फलं तस्य द्विजैरूचे कृष्यादिक्लेशतो नराः । यदर्जिष्यन्ति तद् द्रव्यं ग्रहीष्यन्त्यखिलं नृपाः ॥१६६॥ युगेष्वन्येषु राजानो धनं दत्त्वा निजं बहु । जगतीं प्रीणयामासु-र्जनतैकान्तवत्सलाः ॥१६७॥ राज्ञा पुनर्गतेनाऽग्रे सश्रीकश्चम्पकस्तरुः । शमीशाखी चैकदेशे वनमध्ये निरीक्षितौ ॥१६८॥ १. गाय पोतानी वाछरडीने । २. पानजं - धावीने जीवे तेनुं फल । ३. कृषि १, सेवा २, वाणिज्य ३, पशुपाल ४ । ४. कृतत्रेतायुगने विषे । D:\chandan/new/kalp-1 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy