SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [९९ दीपालिकाकल्पः ॥] धूर्ताः पापकरा मूर्ताः स्फुरिष्यन्ति पदे पदे । त्रपात्यक्ताऽपमर्यादा वेश्यावत् कुलयोषितः ॥१४५।। भूपा भृत्याञ्जनान् भृत्या लोकास्तान् द्वितयानपि । ध्रोक्ष्यन्तीह महीपीठे मात्स्यधर्मः प्रवर्त्यति ॥१४६।। चौराश्चौर्यविधानेन करैर्भूमीश्वराः पुनः । जनं दरिद्रयिष्यन्ति वह्नयोऽपि प्रदीपनैः ॥१४७।। वधो धेन्वादिजन्तूनां पातनं देवसद्मनां । मर्त्यमुण्डकरो दण्डो भाव्येवं दुःखितो जनः ॥१४८।। दुर्भिक्षर्डमरैर्दी:स्थ्यैरसौम्यैर्जनमारिभिः । भाविनी मेदिनी शून्या देशभङ्गादिविप्लवैः ॥१४९॥ प्रेतलोकसमाः श्रेण्यो लञ्चालुब्धा नियोगिनः ।। अविवेकी जनो मूल् निष्कलो निर्द्धनो रुजी ॥१५०।। दारिद्र्यवन्तो दातार: सधनाः कृपणाः पुनः । पापात्मानश्चिरायुष्काः कृतिनस्वल्पजीविनः ॥१५१।। अकुलीना महीपालाः कुलीना नृपसेवकाः । दुःखिनो भाविनः सन्तो दुर्जनाः सुखिनः पुनः ॥१५२॥ एवं च दुष्षमाकाले स्वरूपं लौकिका अपि । व्याहरन्ति कलियुगे व्यपदेशेन तद्यथा ॥१५३।। द्वापराख्ययुगे जज्ञे युधिष्ठिरमहीपतिः । राजपाट्यान्यदा सोऽथ जगाम विपिने क्वचित् ॥१५४।। तत्राऽधोभूय वत्सायाः स्तन्यपानं वितन्वतीम् । गां निरीक्ष्य द्विजाः पृष्टा राज्ञा किमिदमद्भुतम् ॥१५५।। तैर्विज्ञायोदितं राज-न्नागामिनि कलौ युगे । हीनसत्त्वाः श्रिया दुःस्था मातरः पितरस्तथा ॥१५६।। 15 १. मच्छगलागलन्याय-बृहन्मच्छो लघोगिलति, लघुर्लघुतरस्य, लघुतरो लघुतमस्येत्यादि । २. कुटुंबीलोकनी श्रेणी । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy