________________
९६]
[दीपालिकापर्वसंग्रहः ॥ श्रीमदाय॑सुहस्त्याह्व-सूरीणामुपदेशतः । जातिस्मरणमासाद्य जैनधर्मं विधास्यति ॥१०८।। दोर्दण्डमण्डलाक्रान्त-त्रिखण्डक्षोणिमण्डलः । ज्ञाता-दाता-नयी-धर्मी-विनयी-सपराक्रमी ॥१०९।। मुक्ताहारैरिव श्वेत-विहारैरर्हतां वरैः । महीं महीयसीमेतामखण्डां मण्डयिष्यति ॥११०॥ युग्मम् ॥ स नृपोऽनार्यदेशेषु लोकोपकारहेतवे । सम्यक्त्वोपासकाचार-शिक्षादक्षैर्विचक्षणैः ॥१११।। जिनागमविचारजै-रुपदेशविशारदैः । प्रहितैः सेवकैर्लोकान् श्रावकान् कारयिष्यति ॥११२॥ युग्मम् ।। प्रतिबोधविधानार्थं नृणां तत्र पवित्रधीः । गीतार्थानां विहारं स गुरुभि: कारयिष्यति ॥११३।। एवं जिनोदितं धर्मं सर्वदेशेषु शक्तितः । प्रवर्त्य दृढधर्माऽथ क्रमेण त्रिदिवं गमी ॥११४।। मोक्षतो मम सप्तत्या युते वर्षचतुश्शते ४७० । व्यतीते विक्रमादित्य उज्जयिन्यां भविष्यति ॥११५।। श्रीसिद्धसेनसूरीणा-मुपदेशं निशम्य सः । सर्वज्ञशासने भक्त्या प्राप्तसम्यक्त्वनिश्चयः ॥११६।। सत्त्वसिद्धाग्निवेताल-प्रमुखानेकदेवतः । विद्यासिद्धो मन्त्रसिद्धः सिद्धसौवर्णपूरुषः ॥११७।। धैर्यादिगुणविख्यातः स्थाने स्थाने नरामरैः । परीक्षाकषपाषाण-निघृष्टसत्त्वकाञ्चनः ॥११८।। ससन्मानैः श्रियां दानै-रनृणामखिलामिलाम् । कृत्वा संवत्सरं स्वस्य वर्तयिष्यति भूतले ॥११९॥ चतुर्भिः कलापकम् ॥ गीर्वाणगणनुत्याध्वा ध्वजीभूतगुणव्रजः । पालयिता नयोपेतः प्रास्तपापरजाः प्रजाः ॥१२०॥
20
25
१. स्तुत्य ।
D:\chandan/new/kalp-1/pm513rd proof