________________
दीपालिकाकल्पः ॥]
आहारक-मनोज्ञाने-पुलाकः-परमावधिः । क्षपको-पशमश्रेण्यौ-केवलं संयमत्रिकम् ॥९५॥ सिद्धिगति-जिनकल्पो जम्बूनाम्ना समं तदा । सह विच्छेदमेष्यन्ति दुष्षमाद्धानुभावतः ॥९६॥ युग्मम् ॥ चतुर्दशपूर्वधारी तस्य पट्टे प्रभावकः । जम्बूप्रबोधितः शिष्यो भविता प्रभवप्रभुः ॥९७॥ सय्यम्भवस्तु तत्पट्टे भविता द्वादशाङ्गभृत् । दशवैकालिकोद्धारी यशोभद्रश्च पूर्वभृत् ॥९८॥ सम्भूतिर्भद्रबाहुश्च तच्छिष्य सर्वपूर्वि । निर्वृतेर्मम सप्तत्याधिके वर्षशते १७० गते ॥९९॥ भद्रबाहुर्बहुग्रन्थ-कर्ता स्वर्गं गमिष्यति । स्थूलभद्रोऽथ सम्भूते - विनेयः सर्वपूर्वभृत् ॥१००॥ मोक्षतो मे पञ्चदशा - धिके वर्षे शतद्वये २१५ । व्यतीते त्रिदिवं प्राप्ते स्थूलभद्रमुनीश्वरे ॥१०१॥ प्राक् संहननसंस्थाने पूर्वार्थकथनं तथा ।
ध्यानं सूक्ष्मं महाप्राणं यास्यन्ति युगपत् क्षयम् ॥१०२॥ युग्मम् ॥ वर्षैश्चतुरशीत्यभ्य-धिकैः पञ्चशतैर्गतैः ५८४ | व्युच्छेत्स्यन्ते गते वज्रे दशपूर्व्यर्द्धकीलिके ॥ १०३॥ वर्षेष्षोडशभिर्युक्तैः षट्शतैः ६१६ पुष्यमित्रकः सार्द्धाणि नवपूर्वाणि यास्यन्ति विलयं पुनः ॥ १०४॥ षड्भिर्वर्षशतैर्विंश-त्यधिकै ६२० र्मम मोक्षतः । ग्राममध्ये विधास्यन्ति वसतिं चाऽऽर्यसूरयः ॥ १०५॥ नवोत्तरैः शतैः षड्भि - र्वत्सराणां ६०९ दिगम्बराः । पाखण्डिनो भविष्यन्ति रथवीरपुरे पुरे ||१०६ || दिनतो मम मोक्षस्य गते वर्षशतत्रये ३०० । उज्जयिन्यां महापुर्यां भावी सम्प्रतिभूपतिः ॥१०७॥
१. सूक्ष्मसंपराय-यथाख्यात- परिहारविशुद्धयः ।
D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
[ ९५
5
10
15
20
25