________________
९४]
[दीपालिकापर्वसंग्रहः ॥ तत् पीत्वा ग्रथिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं विचेष्टिरे मुग्धा विना तौ राजमन्त्रिणौ ॥८२॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं ग्रथिलौ राजमन्त्रिणौ ॥८३।। अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥८४।। मन्त्री ज्ञात्वेति तन्मन्त्रं नृपायाख्यज्जगाद सः । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥८५।। मन्त्र्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥८६।। कृत्रिमं ग्रहिलीभूय ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदौ ॥८७।। ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ॥८८॥ एवं च दुष्षमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वय॑न्ति भाविसुसमयेच्छवः ॥८९।। एवं स्वप्नफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो गतो दिवम् ॥९०।। श्रुत्वैवं विस्मितस्वान्तः स्वामिनं गौतमप्रभुः । भाविस्वरूपं पप्रच्छ केवलाऽऽलोकभास्करम् ॥९१॥ स्वाम्याह मम निर्वाणा-त्पञ्चमारोऽत्र गौतम ! । एकोननवतिपक्षे-ष्वतीतेषु ८९ लगिष्यति ॥९२।। वर्षंादशभिर्मुक्ति गौतमो मम निर्वृतेः । सुधर्माऽपि तथा गन्ता शिवं विंशतिवत्सरैः ॥९३।। तथा वषैश्चतुष्षष्ट्या जम्बू मुक्ति गमिष्यति । भावी दशानामर्थानां विच्छेदोऽत्र ततो यथा ॥९४।। १. वृन्दाहराजवत् ।
15
20
25
D:\chandan/new/kalp-1/pm513rd proof