________________
[९३
दीपालिकाकल्पः ॥]
तथा मूढधियो लोकाः पात्रापात्रपरीक्षकाः । अपात्रेषु प्रदास्यन्ति पात्रबुद्ध्या धनं मुदा ॥६९।। प्रायः प्रीतिरपात्रेषु दानबुद्धिश्च भाविनी । साधूनुपहसिष्यन्ति भिक्षादोषविवर्जकान् ॥७०।। ज्ञानादिगुणमाणिक्य-पूर्णाः स्वर्णघटोपमाः । भाविनः साधवः स्वल्पाः कालुष्याऽदूषिताशयाः ॥७१॥ श्लथज्ञानक्रियाऽऽचाराः कलशा मलिना इव । स्थाने स्थाने भविष्यन्ति बहवो लिङ्गिनः पुनः ॥७२॥ कलहं ते करिष्यन्ति मत्सरेण महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥७३।। साम्येन व्यवहारो गीतार्था लिङ्गिभिः समम् । जलेन ग्रथिलेनेवाऽ-ग्रहिलो ग्रहिलो जनः ॥७४।। तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ॥७५।। कालं तेनागमिष्यन्तं पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् ।।७६।। मासादनन्तरं मेघा वर्षिता तज्जलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥७७।। कियत्यपि गते काले सुवृष्टि विनी पुनः । सद्यः सज्जीभविष्यन्ति तत्पयःपानतो जनाः ॥७८।। राज्ञो मन्त्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत् ॥७९॥ जनः सर्वस्तथा चक्रे ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥८०॥ अक्षीणसंगृहीताम्बु-राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥८१॥ १. अभून्मेघजलेन वाऽ- ।
15
25
D:\chandan/new/kalp-1/pm5\3rd proof