________________
९२]
[दीपालिकापर्वसंग्रहः ॥ धर्मकृत्येषु ये शिक्षा प्रदास्यन्ति दृढव्रताः । ते तानुपहसिष्यन्ति ग्राम्या ग्रामस्थपौरवत् ॥५६॥ सम्यग्ज्ञानक्रियाभक्ताः शासनस्य प्रभावकाः । सप्तक्षेत्रेषु दातारः सच्चारित्रयतिप्रियाः ॥५७॥ क्षीरवृक्षसमाः श्राद्धाः लिङ्गिभिर्वञ्चनापरैः । बब्बूलतुल्यै रोत्स्यन्ते सर्वतोऽतुच्छमत्सरैः ॥५८।। युग्मम् ॥ लिङ्गिनो न सहिष्यन्ते महत्त्वमनगारिणाम् । उपास्ति वारयिष्यन्ति रोत्स्यन्ति क्षेत्रपद्धतिम् ॥५९॥ अतुच्छस्वच्छतोयायां दीर्घिकायामिव द्विकाः । गच्छे ज्ञानक्रियायुक्ते न स्थास्यन्ति तपोधनाः ॥६०॥ ततस्ते परगच्छेषु श्लथाचारेषु सस्पृहाः । यास्यन्ति पण्डितम्मन्या मूढा धर्माथिनोऽपि हि ॥६१॥ न युक्तं भवतामेवं विधानमिति नोदिताः । साधुभिर्घर्षयिष्यन्ति रुष्टा दुष्टाशया जडाः ॥६२।। जातिस्मृतितपोलब्धि-ज्ञानातिशयवर्जितम् । निष्प्रभावं मतं सार्वं भावि सिंहशवोपमम् ॥६३।। प्राक् प्रभावानुभावेन श्वापदाभाः कुतीथिकाः । एतत्परा भविष्यन्ति न जातु कृतबुद्धयः ॥६४॥ किन्तु मध्ये समुत्पन्ना नानामतप्ररूपणैः । भेत्स्यन्ति भिक्षवः श्वैव-त्सिंहस्वप्नफलं ह्यदः ॥६५।। पद्माकरेषु पद्मानां युक्तोत्पत्तिर्यथा तथा । धार्मिकाणामपि प्रौढ-कुलोत्पत्तिः प्रशस्यते ॥६६॥ परं कालानुभावेन भाविनस्तेऽवमे कुले । अग्राह्यवचसो हीन-गोत्रत्वेन विगहिताः ॥६७।। यथा कोऽप्यूषरक्षेत्रे मुग्धबुद्धिः कृषीवलः । धान्यबीजानि वावप्ति शस्यसम्पत्तिहेतवे ॥६८।। १. प्रेरिताः । २. द्वेषयिष्यन्ति । ३. सर्वज्ञम् । ४. पण्डिताः । ५. श्चैतत् ।
15
D:\chandan/new/kalp-l/pm5\3rd proof