________________
5
10
दीपालिकाकल्पः ॥]
[९१ वाणिज्यग्राम-वैशाली-निश्रया द्वादशाऽभवन् १२ (१६) । राजगृहस्य नालन्दा-पाटके च चतुर्दश १४ (३०) ॥४५।। षडभूवन् ६ (३६) मिथिलायां भद्रिकायां द्वयं २ (३८) पुनः एक १ (३९) मालम्भिकापूर्या-मेकं १ (४०) प्रणीतभुव्यभूत् ॥४६॥ श्रावस्त्यामेक १ (४१) मेकं १ (४२) तु पापापुर्यां जिनेशितुः । हस्तिपाल-नरेशस्य संजातं रज्जुसंसदि ॥४७॥ चतुर्मास्यां तदा तस्यां स्वायुः स्वल्पं विभुर्विदन् । लोकानुकम्पया धर्मं षोडश प्रहरान् जगौ ॥४८॥ पण्यपालस्तदा नन्तं भपः प्राप्तौ व्यजिजपत । अष्टौ दृष्टा मया स्वप्ना नाथ ! तेषामयं क्रमः ॥४९॥ जीर्णशालारतो हस्ती कपिश्चापल्यकारकः । क्षीरद्रुः कण्टकैर्व्याप्तौ न काका दीर्घिका प्रियाः ॥५०॥ शवसिंहः पराधृष्यः पद्मोत्पत्तिरनास्पदे । ऊषरे बीजवापश्च हेमकुम्भा मलाविलाः ॥५१॥ तदेषां फलमाख्याहि ज्ञानज्ञातजगत्त्रयः । वीरो राज्ञेति विज्ञप्तो भावि तत्फलमादिशत् ॥५२॥ दुःखदौर्गत्यदीनत्व-पीडारोगभयाश्रयः । जीर्णशालासमो भावी समयेन गृहाश्रमः ॥५३।। गही गजो रतस्तत्र द:खेऽपि नादरिष्यति ।। व्रतशालां सुखासेव्यामादृतामपि मोक्ष्यति ॥५४॥ कपिवच्चपलात्मान-स्तुच्छसत्त्वा अनाश्रवाः ।
यतयो भाविनो ज्ञान-क्रियासु शिथिलादराः ॥५५॥ १. अनार्यदेशे । २. कारकुनसभा इति-लोके । ३. प्रभुः षोडशप्रहरदेशना ददौ, त्रयोदशी-मध्यरात्रितः प्रारब्धः, त्रयोदशीदिवसस्य प्रहरद्वयं, चतुर्दशीदिनस्य प्रहराष्टकं, अमावास्यायाः प्रहरषट्कं एते षोडशप्रहराः । अमावास्यादिने पुण्यपालः सामन्तनृपो नन्तुं स्वामिनं समागतः, पृष्टवान् हे स्वामिन् !, अद्य मया रात्रितृतीयप्रहरान्ते अष्टौ स्वप्ना दृष्टाः, निद्रा च मे गता, तेषामयं क्रमः ॥ ४. अकथनकारिणः ।
D:\chandan/new/kalp-1/pm5\3rd proof