________________
[९७
दीपालिकाकल्पः ॥]
पञ्चत्रिंशद्युते तस्मा-द्वत्सराणां शते १३५ गते । वर्तयिष्यत्युज्जयिन्यां शकः संवत्सरं निजं ॥१२१॥ युग्मम् ॥ पञ्चाशीत्या समधिकै-वर्षाणां पञ्चभिः शतैः ५८५ । विक्रमानेहसः सूरि-हरिभद्रो भविष्यति ॥१२२।। मत्तोऽधिकैस्त्रिनवत्या नववर्षशतैर्गतैः ९९३ । सूरयः कालिकाह्वया भाविनः शक्रवन्दिताः ॥१२३।। ते श्रीपर्युषणापर्व चतुर्थ्यां पंचमीदिनात् । सर्वाचार्यानुमत्यैव समानेष्यन्ति हेतुतः ॥१२४॥ द्वादशशतैर्वर्षाणां सप्ततौ १२७० मम मोक्षतः । बप्पभट्टिगुरुर्भावी सर्वविद्याविशारदः ॥१२५।। तद्वाक्यादाऽऽमराजा मे प्रतिमां गोपपर्वते । कारयिष्यति सार्द्ध-त्रिकोटिस्वर्णमयीं मुदा ॥१२६।। त्रयोदशशतै १३०० वयातैर्मम मोक्षतः । मतभेदा भविष्यन्ति बहवो मोहहेतवः ॥१२७|| विक्रमानेहसो जाते-ष्वेकादशशतेष्वथ ११५९ । एकोनषष्ट्यधिकेषु राकापक्षो भविष्यति ॥१२८।। वत्सरैादशशतै-श्चतुर्भिरधिकैर्गतैः १२०४ । भावी विक्रमतो गच्छ: ख्यातः खरतराख्यया ॥१२९।। शरच्छतैर्द्वादशभि-र्गतैस्त्रयोदशोत्तरैः १२१३ । राकापक्षात् पृथग्भूतोऽञ्चलपक्षो भविष्यति ॥१३०॥ षट्त्रिंशदधिकैर्वर्षे-र्गतैदशभिः शतैः १२३६ । सार्द्धराकाभिधो गच्छो महाशयो भविष्यति ॥१३१॥ पञ्चाशताधिकैर्वर्षे-गतै‘दशभिः शतैः १२५० । विक्रमानेहसो भावी गच्छ आगमसंज्ञकः ॥१३२॥
15
१. मत्तो-मम निर्वाणात् (विरनिर्वाणात्) । २. ग्वालियरने विषे । ३. साडा त्रण क्रोड सुवर्ण खर्च थाय तेवी एक प्रतिमा । ४. दोढ पुनमीओ-पूर्णिमा अने चतुर्दशी संधी मान्य साढ पुनमीया नामे गच्छ थशे । ५. त्रिस्तुतिकः ।
D:\chandan/new/kalp-1/pm5\3rd proof