________________
[८९
दीपालिकाकल्पः ॥]
एवं चतुर्दशस्वप्नसूचितस्य जिनेशितुः ।
चैत्रमासे त्रयोदश्यां जन्म पक्षे सितेऽजनि ॥२२॥ जिनेशजन्म विज्ञायाऽवधिज्ञानेन तोषतः । समग्रदिक्कुमारीभि-जन्मकृत्यानि चक्रिरे ॥२३।। अवधिज्ञानतो ज्ञात्वा विदधे विबुधाधिपैः । कल्याणाचलचूलायां जन्मस्नात्रोत्सवः प्रभोः ॥२४॥ यथार्थं पितरौ राज्य-लक्ष्मीभोगादिवृद्धितः । नामधेयं विधत्तः स्म वर्द्धमान इति प्रभोः ॥२५।। अनन्तसत्त्वधीरत्व-चमत्कृतबलद्विषा ।। अवर्धत विभुर्दत्त-महावीरापराह्वयः ॥२६॥ भोगयोग्यं विभुं मत्वा पिता मुदितमानसः । राजकन्या यशोमत्या पाणिग्रहमचीकरत् ॥२७॥ सुपार्श्वकः पितृव्योऽभू-दग्रजो नन्दिवर्द्धनः । स्वसा सदर्शना जज्ञे पत्नीत्वे त यशोमती ॥२८॥ प्रियदर्शनया साकं कुटुम्बं सुतयाऽभवन् । वीरस्य वसतो वेश्म-न्यष्टाविंशतिर्वत्सराः ॥२९॥ धुलोकं प्राप्तयोः पित्रोः सम्पूर्णाऽभिग्रह प्रभुः । नन्दिवर्द्धनभूपेन स्थापितो वत्सरद्वयम् ॥३०॥ तीर्थं प्रवर्तयेत्यक्तस्तत्र लोकान्तिकामरैः । दानं प्रवर्तयामास यावत्संवत्सरं प्रभुः ॥३१॥ तप्तषष्ठतपा देव-कृतनिष्क्रमणोत्सवः । ज्ञातखण्डवने प्राप शिबीचन्द्रप्रभाश्रितः ॥३२॥
१. शक्रेण । २. समरवीरराजपुत्री । ३. पांचमां ब्रह्मदेवलोमां वसतां लोकान्तिक देवो होय छे, अने जेओ नव प्रकारना होय छे १. सारस्वत २. आदित्य, ३. वह्नि, ४, वरुण, ५. गर्दतोयक, ६. तुषित, ७. अव्याबाध, ८. अग्नेय, अने ९. रिष्ट । ४. सूर्योदयथी मध्याह्न पर्यंत प्रतिदिन एक क्रोड आठ लाखनुं (अने एक वर्ष सुधीमांत्रण अबज अठ्यासी क्रोड अने ऐंशी लाख सांवत्सरिक) दान सुवर्णतुं, अने अन्य हाथी-घोडा-रथ-वस्त्र आदि जुदा समजवा ।
D:\chandan/new/kalp-1/pm5\3rd proof