SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रुतस्थविराचार्यदेवश्रीजिनसुन्दरसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्रीवर्धमानमाङ्गल्य-प्रदीपः पीवरद्युतिः । देयादतुल्यकल्याण-विलासं विपुलं सताम् ॥१॥ श्रीवर्धमानतीर्थेश-कल्याणकमहोत्सवम् । वक्ष्ये दीपालिकाकल्पं पुण्यलक्ष्मीफलद्रुमम् ॥२॥ स्वश्रिया स्वर्गजयिनी नाम्नास्त्युज्जयिनी पुरी । सम्प्रतिभूपतिस्तत्र प्रतापतपनोपमः ||३|| तस्यामार्यसुहस्त्याह्वाः सूरयो गुणभूरयः । जीवतः स्वामिनो मूर्ति नन्तुं वीरविभोर्गताः ॥४॥ जिनेशरथयात्रार्थ - मन्यदा तत्र सूरयः । सहाऽनघेन सङ्खेन प्रस्थिता राजवर्त्मनि ॥५॥ सूरीनालोक्य संजात-जातिस्मृतिरिलापतिः । आगत्य सम्प्रतिर्नत्वा भक्त्या चेति व्यजिज्ञपत् ॥६॥ यूयं जानीथ मां पूज्या इत्युक्ते क्षितिपेन ते । वदन्ति स्म गुरूत्तंसाः कस्त्वां वेत्ति न सम्प्रते ! ||७|| पृच्छामि ज्ञानपारीणा ! विशेषेणोपलक्षणम् । इति राज्ञोदिते ज्ञात्वा श्रुतेन सूरयोऽभ्यधुः ॥८॥ १. श्रेणिकपट्टे - कोणिक, तत्पट्टे - उदाई, तत्पट्टे - नवनन्दाः, तत्पट्टे - चन्द्रगुप्तः, तत्पट्टेबिन्दुसारः, तत्पट्टे - अशोकश्री, तत्पट्टे- कुणालनन्दनः सम्प्रति । २. सूरिभिः श्रुतोपयोगेन ज्ञात्वा चोक्तवान्, हं सम्प्रते ! पूर्वभवे सोपारके दुर्भिक्षे द्रमको रङ्क इभ्यपुत्रः सप्तदिनबुभुक्षितो मम शिष्याणां विविधां भिक्षां दीयमानां वीक्ष्य उपाश्रयद्वारे भिक्षां प्रार्थयन् वक्ति, अहो गुरो ! सप्तदिनं यावत् बुभुक्षितोऽहम् । D:\chandan/new/ kalp-1 / pm5\ 3rd proof 5 10 15
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy