________________
परिशिष्टम् [७] धर्मसंग्रहवृत्तिगतव्याकरणादिविमर्शः ॥]
[८६५ 'अवगाहिमं'
अवगाहेन स्नेहबोलनेन निर्वृत्तं अवगाहिमं पक्वान्नम् , "भावादिमः"
[श्रीसि.-६-४-२१] इतीमः ॥ [पृ० ३३६] 'प्रतिक्रमणं
प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, "क्रमू पादविक्षेपे' [धा० पा० ३८५] अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं
प्रतिक्रमणम् ।। [पृ० ३६८] 'सामाचारी'
समाचरणं समाचारः शिष्टाचरितक्रियाकलापस्तस्य भावो "गुणवचनब्राह्मणादिभ्यः कर्मणि ष्यञ्" [पा० ५।१।१२४] सामाचऱ्या, पुनः स्त्रीत्वविवक्षायां "षिद्गौरादिभ्यश्च" [पा० ४।१।४१] इति ङीष् , "यस्य" [ पा० ६।४।१४८] इत्यकारलोपः, “यस्य हलः'' [ पा० ६।४।४१] इति तद्धितयलोपः, परगमने सामाचारीति सिद्धम् ॥ [पृ० ४९२]
D:\d-p.pm5\3rd proof