________________
८६४]
[धर्मसंग्रहः 'चंदेसु निम्मलयरा' 'आइच्चेसु अहियं पयासयरा' "पञ्चम्यास्तृतीया च" [ श्रीसि०८-३-१३६]
इति पञ्चम्यर्थे सप्तमी, अतश्चन्द्रेभ्यो निर्मलतराः, सकलकर्ममलापगमात् । पाठान्तरं वा 'चंदेहिं निम्मलयरा' । एवमादित्येभ्यः अधिकं प्रकाशकराः,
केवलोद्योतेन लोकालोकप्रकाशकत्वात् ।। [पृ० २७८] 'तमतिमिरपडलविद्धंसणस्स' तमोऽज्ञानम् , तदेव तिमिरम् , अथवा बद्ध-स्पृष्ट-निधत्तं ज्ञानावरणीयं कर्म
तमः, निकाचितं तिमिरम् ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम् , तद्विध्वंसयति विनाशयतीति "नन्द्यादित्वादने" [ श्रीसि० ५१-१२] तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः ।।
[पृ० २७९] 'सीमाधरस्स वंदे सीमां मर्यादां धारयतीति सीमाधरस्तस्य, श्रुतधर्मस्य इति विशेष्यम् , ततः
कर्मणि द्वितीया, तस्याश्च "क्वचिद् द्वितीयादेः" [श्रीसि०८-३
१३४] इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे । [पृ० २७९] 'खमासमणो' 'क्षमाश्रमण' "क्षमूष सहने" [पाणिनीयधातुपाठे ४४२] इत्यस्यार्ष
त्वादङि क्षमा, सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति वा नन्द्यादित्वात् कर्तर्यने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणस्तस्य सम्बोधने प्राकृते 'खमासमणो' "डो दीर्घो वा"
[सिद्धहम ८-३-३८] इति आमन्त्र्ये से?कारः । [पृ० ३१०] 'जावणिज्जाए निसीहिआए' यापनीयया नैषेधिक्या, अत्र नैषेधिक्येतिविशेष्यम् , यापनीययेति
विशेषणम् , “षिधु गत्याम्" [ हैम धा० पा० १॥३२० ] इत्यस्य निपूर्वस्य घञि निषेधः प्राणातिपातादिनिवृत्तिः, स प्रयोजनमस्या नैषेधिकी -तनुः, तया प्राणातिपातादिनिवृत्तया तन्वा इत्यर्थः । कीदृश्या ? यापनीयया, "यांक प्रापणे" [धा० पा० २-४-१०६२] अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवचनीयादित्वात् कर्त्तर्यनीयः,
तया, शक्तिसमन्वितयेत्यर्थः ॥ [पृ० ३१०] 'प्रत्याख्यानं'
"ख्या( ख्याङ्क् ) प्रकथने" इत्यस्य प्रत्यापूर्वस्य, ल्युडन्तस्य रूपम् , प्रतीति प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् ।
कृत्यल्युटो बहुलमितिवचनादन्यथाप्यदोषः ।। [पृ० ३२३] 'अशनं पानं खादिमं स्वादिमं चेति' तत्राश्यते इति अशनम् , "अश भोजने"[ ] इत्यस्य ल्युडन्तस्य
भवति । तथा पीयत इति पानम् , पाधातोः । तथा खाद्यत इति खादिमं "खादृ भक्षणे"[ ] इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य । एवं स्वाद्यत इति स्वादिम , "स्वद आस्वादने" [ ] इत्यस्य च रूपम् ॥ [पृ० ३२८]
D:\d-p.pm5\3rd proof