________________
४१०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "मम मंगलमरिहंता, सिद्धा साहू सुअं च धम्मो य ।
समद्दिट्ठी देवा, दिंतु समाहिं च बोहिं च" ॥४७॥ 'मम मङ्गलमर्हन्तः सिद्धाः साधवः' 'श्रुतं' चाङ्गोपाङ्गाद्यागमः, 'धर्मः' चारित्रात्मकः, चशब्दाल्लोकोत्तमाश्च, शरणं चैते इति द्रष्टव्यम् । चत्तारि मङ्गलमित्यादौ चत्वार्येव मङ्गलान्युक्तानि, अत्र तु धर्मान्तर्गत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थम् , तथा 'सम्यग्दृष्टयः' अर्हत्पाक्षिका देवाश्च देव्यश्चेत्येकशेषाद् देवा - यक्षाम्बाप्रभृतयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं 'बोधि' प्रेत्य जिनधर्मप्राप्तिरूपाम् । आह -ते देवाः समाधिदाने किं समर्था न वा ?, यद्यसमर्थास्तहि तत्प्रार्थनस्य वैयर्थ्य, यदि समर्थास्तहिं दूरभव्याभव्येभ्यः किं न प्रयच्छन्ति?, अथैवं मन्यते –योग्यानामेव ते समर्था, नायोग्यानां, तर्हि योग्यतैव प्रमाणम् , किं तैरजागलस्तनकल्पैः ?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणम् , परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु जिनमतानुयायिनः, तच्च सर्वनयसमूहात्मकस्याद्वादमुद्रानतिभेदि, 'सामग्री वैजनिका'इति वचनात् , यथा हि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणम् , एवमिहापि जीवयोग्यतायां सत्यामपि तथा तथा प्रत्यूहनिराकरणेन देवा अपि समाधिबोधिदाने समर्था भवन्ति मेतार्यादेरिव इत्यतो न निरर्थका तत्प्रार्थनेति ॥४७॥ ___ ननु स्वीकृतव्रतस्य प्रतिक्रमणं युक्तं, न त्ववतिनां व्रतासत्त्वेनातिचारासंभवादिति चेत् , मैवं, यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्षु स्थानेषु इति । येषु चतुर्षु स्थानेषु प्रतिक्रमणं भवति तदुपदर्शनायाह -
"पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं ।
अस्सद्दहणे अ तहा, विवरीअपरूवणाए य" ॥४८॥ 'प्रतिषिद्धानां' सम्यक्त्वाणुव्रतादिमालिन्यहेतुशङ्कावधादीनां करणे' 'कृत्यानां' चाङ्गीकृतपूजादिनियमानामकरणे 'अश्रद्धाने' च निगोदादिविचारविप्रत्यये, तथा 'विपरीतप्ररूपणायां' उन्मार्गदेशनायाम् , इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिव, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति ब्रूमः, गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य
१. L.P. I “मरहंता-मु० C. ॥ २. इति । तान्याह-पडि' L.P. || ३. दुरन्तादभ्र इति श्राद्धदिनकृत्ये प० १४३ ॥
D:\new/d-2.pm5\3rd proof