________________
४०८]
दृष्टान्तान्तरमाह -
4
'जहा विसं कुट्ठगयं मंतमूलविसारया ।
विज्जा हणंति मंतेहिं, तो तं हवइ निव्विसं" ॥३८॥ कण्ठ्या । नवरं –‘विज्जा' इति वैद्याः 'तं ति' तत् पापम्, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुद्ध्यते, तथाप्यचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव' इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते ॥३८॥
दान्तिक माह
-
"एवं अट्ठविहं कम्मं, रागदोससमज्जियं ।
आलोयंतो य निंदितो, खिप्पं हणइ सुसावओ" ॥३९॥
कण्ठ्या । नवरं – सुशब्दः पूजार्थः, स च "कयवयकम्मो " [ ] इत्यादिना पूर्वोक्त - षट्स्थानयुक्तस्य भाव श्रावकत्वस्य सूचकः । एनमेवार्थं सविशेषमाह - "कयपावो वि मणुस्सो, आलोइयनिंदिओ गुरुसगासे । होइ अइरेगलहुओ, ओहरियभरु व्व भारवहो" ॥४०॥
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
सुबोधा नवरं – मनुष्यग्रहणमेतेषामेव प्रतिक्रमार्हत्वख्यापनार्थम्, 'आलोइअनिंदिओ त्ति' आलोचितनिन्दितः सम्यक्कृतालोचननिन्दाविधिरित्यर्थः, 'गुरुसकाशे' इत्यनेन चागुरोरगीतार्थादेरन्तिके आत्मनैव वा क्रियमाणाया आलोनचायाः शुद्ध्यभावो दर्शितः, 'ओहरिअरु व्व त्ति' अपहृतभार इवेति ॥ ४०॥
44
सम्प्रति श्रावकस्य बह्वारम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह 'आवस्सएण एएण, सावओ जइ वि बहुरओ होइ । दुक्खाणमंतकिरियं, काही अचिरेण कालेण" ॥४१॥
आयश्यकेनैतेनेति –षड्विधभावावश्यकरूपेण, न तु दन्तधावनादिना द्रव्यावश्यकेन, ‘श्रावको’ ‘यद्यपि’ ‘बहुरजा' बहुबध्यमानकर्मा बहुरतो वा विविधसावद्यारम्भासक्तो भवति, तथापीत्यध्याहाराद् ‘दुःखानां'' शारीरमानसानां 'अंतकिरियं' अन्तक्रियां विनाशं 'करिष्यत्यचिरेण' स्तोकेनैव कालेन, अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रम्, तथापि परम्पराहेतुरिदमपि जायते, सुदर्शनादेरिवेति ॥ ४१ ॥
सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह -
44
'आलोयणा बहुविहा, न य संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि " ॥४२॥
D:\new/d-2.pm5\3rd proof