SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ [ ३७१ प्रतिक्रमणकरणम् - श्लो० ६५ ॥ ] अपराधो भवतु मा वा, परमुभयकालं प्रतिक्रमणं कर्त्तव्यम्, अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणम् । यदाह – "सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जिणाणं, कारणजाए पडिक्कमणं" ॥१॥ [ कल्पपंचा./३२] प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भादौ उक्तः - “साधुना श्रावकेणापि अनुयोगद्वारगत 'तदप्पिअकरणे' इति पदस्य करणानि - तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नेव - आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तदर्पितकरणः, सम्यक् यथावस्थानन्यस्तोपकरण इत्यर्थः” [ ] इति वृत्तिः । तथा - " जो मुहपोत्तियं अपडिलेहित्ता वंदणं देइ, तो गरुअं तस्स पायच्छित्तं" [ ] इति व्यवहारसूत्रम् । " पोसहसालाए ठवित्तु ठवणायरियं मुहपत्तिअं पमज्ज तो सीहो गिण्हइ पोसहं " [ ] इति व्यवहारचूलिका । "पावरणं मोत्तूणं, गिण्हित्ता मुहपोत्तिअं । वत्थकायविसुद्धीए, करेइ पोसहाइअं " ॥२॥ [ ] इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणादियुक्तेन द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने जातु तदभावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिकं तदभावे च नमस्कारपूर्वं स्थापनाचार्यं स्थापयित्वा पञ्चाचारविशुद्ध्यर्थं प्रतिक्रमणं विधेयम् । अत्राह कश्चित् – ननु "गुरुविरहंमि उठवणा, गुरूवएसोवदंसणत्थं च । जिणविरहंमि व जिणबिंबसेवणामंतणं सहलं ॥१॥ [ वि.भा./ ३४६५ ] इत्यादि विशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेत्, न, भदन्तशब्दं भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा वन्दनकनिर्युक्तौ – “ आयप्पमाणमित्तो, चउद्दिसि होइ उग्गहो गुरुणो” [ ] इत्यक्षरैर्गुरोवग्रहप्रमाणमुक्तं तत् कथं घटते ?, न हि गुर्वभावे " D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy