SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३७०] [धर्मसंग्रहः-द्वितीयोऽधिकारः मध्याह्नादारभ्यार्द्धरात्रं यावद् इत्युक्तं । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि - "उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिमटुं" ॥१॥ [पा.स./९] पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात् तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात् पाक्षिकमपि षष्ठेन स्यात् , तथा च "अट्ठमछट्ठचउत्थं, संवच्छरचाउमासपक्खीसुं"[ ] इत्याद्यागमविरोधः । तथा यत्र चतुर्दशी गृहीता तत्र न पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि –'अट्ठमीचउद्दसीसु उववासकरणम्" इति पाक्षिकचूर्णौ । [तथा "सागरचंदो कमलामेला विसामिपासे धम्म सोऊण गहिआणुव्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसुंसुण्णघरेसु मसाणेसु एगराइअंपडिमं ठाइ''[ ] इति। "सो अट्टमिचउद्दसीसु उववासं करेइ"[ ] इति । “अट्ठमिचउद्दसीसु अरहंता साहुणो अवंदेअव्वा'' इति चावश्यकचूर्णी । ___तथा "संते बलवीरिअपुरिसक्कापरक्कमे अट्ठमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठमे न करिज्जा पच्छित्तं" इति महानिशीथ प्रथमाध्ययने । इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा – ___ "चउत्थछट्टमकरणे अट्ठमिपक्खचउमासवरिसेसु" इति व्यवहारभाष्यषष्ठोद्देशके च । “पक्खस्स अट्ठमी खलु , मासस्स या पक्खियं मुणेअव्वं" [ ] इत्यादिव्याख्यायां वृत्तौ चूर्णौ च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु क्वचिदुभयोपादानमपि स्यादेव । चातुर्मासिक-सांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशी-चतुर्थ्योः क्रियेते, प्रामाणिकं चैतत् , सर्वसंमतत्वाद् । उक्तं च कल्पभाष्ये - "असढेण समाइण्णं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुजणमयमेअमायरिअं" ॥१॥[बृ.क./४४९९] इति । तथा ध्रुवाध्रुवभेदाद् द्विधा प्रतिक्रमणम् , तत्र ध्रुवं भरतैरवतेषु प्रथमचरमतीर्थकरतीर्थेषु , १. अथ-P. संशो० ॥ २. पच्छित्तं-इति-P. || ३. इतो अग्रे- "तथा अट्ठमछटे चउत्थं संवच्छरी-चाउमासि-पक्खेअ पोसहि तवे भणिए बितिअं असहू गिलाए अ इत्यादि पाक्षिकशब्दप्रतिपादकाक्षराणि" इति L.P. प्रत्योरधिकः पाठः ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy