________________
श्रावकदिनकृत्येऽर्थार्जनादिविचार:-श्लो० ६३॥]
[३५१ "एकत्रासत्यजं पापं, पापं निःशेषमन्यतः ।
द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते" ॥१॥ [यो.शा.२।६४ वृत्तौ ] इति । प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत् । न च साक्षिणं विना मित्रगृहेऽपि स्थापनिका मोच्या, मित्रादिहस्ते न द्रव्यप्रेषणाद्यपि युक्तम् , अविश्वासस्यार्थमूलत्वाद् विश्वासस्यानर्थमूलत्वाच्च । यथा तथा शपथादिकं च न विदध्यात् , विशिष्य देवगुर्वादिविषयम् । नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् । समुदितक्रयविक्रयादिप्रारम्भे वाऽविघ्नेनाभिमतलाभादि कार्यसिद्ध्यर्थं पञ्चपरमेष्ठिस्मरण-श्रीगौतमादिनामग्रहण-कियत्तद्वस्तुश्रीदेवगुर्वाधुपयोगित्वकरणादि कर्त्तव्यम् , धर्मप्राधान्येनैव सर्वत्र साफल्यात् । धनार्जनार्थमुद्यच्छता च सप्तक्षेत्रीव्ययादिधर्ममनोरथा महान्त एव नित्यं कर्त्तव्याः । सति च लाभसम्भवे तान् सफलानपि कुर्यात् ।
"ववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो।
तयभावे ववसाओ, विहवो वि अ दुग्गइनिमित्तं" ॥१॥[पु.मा./५६ ] एवं च धर्मद्धिर्भवति, अन्यथा तु भोगद्धिः पापद्धिर्वा । उक्तं च - "धम्मिद्धी १ भोगिद्धी २ पाविद्धी ३ इअ तिहा भवे इद्धी । सा भणइ धम्मिड्डी, जा णिज्जइ धम्मकज्जेसुं ॥१॥[] सा भोगिड्डी गिज्झइ, सरीरभोगंमि जीइ उवओगो।
जा दाणभोगरहिआ, सा पाविड्डी अणत्थफला" ॥२॥[ ] अतो देवपूजा-दानादिकैनॆत्यिकैः सङ्घपूजा-सार्मिकवात्सल्यादिकैश्चावसरिकैः पुण्यैर्निजद्धिः पुणयोपयोगिनी कार्या। अवसरपुण्यकरणमपि नित्यपुण्यकरणकर्तुरेवौचितीकरम् । लाभेच्छा तु स्वभाग्यनुसारेणैव कुर्यादन्यथाऽऽर्तध्यानप्रवृद्धि: स्यात् , ततश्च मुधा कर्मबन्धः । व्ययं चायोचितं कुर्यात् । यतः -
"पादमायान्निधिं कुर्यात् पादं वित्ताय कल्पयेत् ।
धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे" ॥१॥[] केचित् त्वाहुः- “आयाद नियुञ्जीत, धर्मे समधिकं ततः ।
शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम्" ॥१॥[ ] निर्द्रव्यसद्रव्ययोरयं विभाग इत्येके । इह न्यायार्जितवित्त-सत्पात्रविनियोगाभ्यां चतुर्भङ्गी -तत्र न्यायार्जितविभवसत्पात्रविनियोगरूप: पुण्यानुबन्धिपुण्यहेतुः शालि
१. द्रव्यपेष(र) णाद्यपि-मु० ॥
D:\new/d-2.pm5\3rd proof