________________
विकृतिस्वरूपम्-श्लो० ६२॥]
[३३९ ___ अनयोर्व्याख्या -दुग्ध-दधि-मद्यानां चत्वार्यङ्ग्लानि संसृष्टम् विकृतिर्न भवति, उपरि तु विकृतिरेवेत्यर्थः । फाणितो द्रवगुडस्तेन तैल-घृताभ्यां च मिश्रिते कूररोट्टिकादौ यद्येकमङ्गलमुपरि चटितं तदा न विकृतिः, मधूनि च पुद्गलानि च मांसानि तेषां रसैः संसृष्टम् अङ्गलस्यार्द्ध संसृष्टं भवति, अङ्गलार्द्धात् परतो विकृतिरेव, गुडपुद्गलनवनीतविषये एतैः संसृष्टमिति यावदा मलकम् , तुशब्दस्यावधारणार्थत्वादा मलकमेव न विकृतिर्भवति । आर्द्रामलकशब्देन पीलुवृक्षसम्बन्धी 'मुहुर' इत्युच्यते । 'उक्खित्तविवेगेणं' इति उत्क्षिप्तविवेक आचाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति । पडुच्चमक्खिएणं' इति, प्रतीत्य सर्वथा रूक्षं मण्डकादिकमपेक्ष्य म्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्त्तते तत् प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः । ___इह चायं विधिः -यद्यङ्गल्या तैलादि गृहीत्वा मण्डकादि म्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिषुत्क्षिप्तविवेकः सम्भवति तासु नवाकाराः, अन्यासु द्रवरूपास्वष्टौ । ननु निविकृतिक एवाकाराभिधानाद्विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते ? उच्यते, निर्विकृतिग्रहणे विकृतिपरिणामस्यापि सङ्ग्रहो भवति, ततस्त एवाकारा भवन्ति । तथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि व्यासनकस्य सार्द्धपौरुष्या अपार्द्धस्य च प्रत्याख्यानमदुष्टम् , अप्रमादवृद्धः सम्भवात् । आकारा अप्येकासनादिसम्बन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात् , चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् । ननु व्यासनादीन्यभिग्रहप्रत्याख्यानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । नैवं, एकाशनादिभिस्तुल्ययोगक्षेमत्वात् । ___ अन्ये तु मन्यन्ते -एवं हि प्रत्याख्यानसङ्ख्या विशीर्येत । तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत्पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति ।
ग्रन्थसहितं च नित्यमप्रमत्ततानिमित्ततया महाफलम् । उक्तं च - "जे निच्चमप्पमत्ता, गंठिं बंधंति गंठिसहिअस्स । सग्गापवग्गसुक्खं, तेहिं निबद्धं सगंठंमी ॥१॥[य.दि./५६]
१. तुला-योगशास्त्रटीका प० ७२२ ।। २. तुला-श्राद्धविधिवृत्तिः प० ४४ ॥
D:\new/d-2.pm5\3rd proof