________________
२९६ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः देवसत्कं कृतं द्रव्यं सद्य एव देयम्, अन्यथा पूर्वोक्तदेवद्रव्योपभोगदोषप्रसङ्गात्, सद्योऽर्पणासमर्थस्तु पक्षाद्यवधिं स्फुटं कुर्यात्, तदन्तर्देयम्, तदुल्लङ्घने तु देवद्रव्योपभोगदोषः स्फुट एव । देवसत्कं वादित्रमपि गुरोः सङ्घस्यापि चाग्रे न वाद्यम्, केचित् त्वाहुः –पुष्टावलम्बने बहुनिष्क्रियार्पणपूर्वं व्यापार्यते अपि । यतो
44
'मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई ।
जो वावारइ मूढो, निअकज्जे सो हवइ दुहिओ " ॥१॥[ गाथा./४७७ ] स्वयं च व्यापारयता जातु भङ्गे उपकरणस्य स्वद्रव्येण नव्यसमारचनम् । स्वगृहदीपश्च देवदर्शनार्थमेव देवाग्रे आनीतोऽपि देवसत्को न स्यात् । पूजार्थमेव देवाग्रे मोचने तु देवसत्क एव, परिणामस्यैव प्रामाण्यात् I
एवं ज्ञानद्रव्यमपि देवद्रव्यवन्न कल्प्यते, ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम्, साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युक्तम्, गुरुद्रव्यत्वात् ।
[उक्तं च श्राद्धजीतकल्पे -
२
'मुहपत्तिआसणाइसु, भिन्न जलन्नाइस गुरुलहूगाई ।
जइदव्वभोगि इअ पुण, वत्थाइसु 'देवदव्वं व" ॥१॥ [ श्रा.जी./गा.६८ ] भावार्थो यथा गुरुयतिसत्केषु मुखवस्त्रिका - ऽऽसना- - ऽशनादिषु परिभुक्तेषु भिन्नम्, तथा जलेऽन्ने आदिशब्दाद्वस्त्रादौ च विक्रमार्कादिनेव केनापि साधुनिश्राकृते लिङ्गिसत्के कनकादौ वा परिभुक्ते गुरु लघुकादयः क्रमेण स्युः । अयमर्थः गुरुसत्के जले भुक्ते री, अन्ने ४ वस्त्रादौ ६ लघवः ४ कनकादौ ६ इति । एवं च गुरुद्रव्यं भोगार्ह-पूजार्हभेदाभ्यां द्विविधम् – तंत्राद्यं वस्त्र - पात्रा - ऽशनादि, द्वितीयं च तन्निश्राकृतं सौवर्णमुद्रादीति पर्यवसन्नम् ]
साधारणं तु सङ्घदत्तं कल्पते । अत एव च मुख्यवृत्त्या धर्मव्यय: साधारण एव
44
T
१. तुला-श्राद्धविधिवृत्तिः प० ७९ ॥ २. L.P.C. श्राद्धविधिवृत्तौ च ॥ भिण्णं जलण्णमाइसुमु० । ३. L.P.C. I °भोगि अ पुण मु० । भोगि इय- श्राद्धविधिवृत्तौ ॥ ४. L.P.C. | देवदव्व व्वमु० ॥ ५. P. । भावार्थो यथा - L. C. नास्ति ॥ ६. तथा यतिसत्केषु जले - L. ॥ ७. L. श्राद्धविधिवृत्तौ च । साधुनिश्राकृते-P.C. मु० ॥ ८. L. P. । परिभुक्ते गुरु । P. भुक्ते सति गुरु मु० ।। ९. अयमर्थः गुरुसत् जले भुक्तेरी अन्ने ४ - L. । जले ६ लघवः अन्ने ४ गुरवः वस्त्रादौ ६ लघवः ४ कनकादौ ६ गुरवः एते । एवं च - मु० ॥ १०. तत्र भोगाईं वस्त्रपात्राशनादि पूजार्हं तु तन्नि L. ॥ ११. "ति स्थितम्-L. ॥
D:\new/d-2.pm5\ 3rd proof