________________
२४४]
[धर्मसंग्रहः-द्वितीयोऽधिकार: चंदणपूअ(ण )बलिढोअणेसु , एगस्स कीरमाणेसु। आसायणा न दिट्ठा उचिअपवित्तस्स पुरिसस्स ॥६॥[] जह मिम्मयपडिमाणं, पूआ पुष्फाइएहिं खलु उचिआ । कणगाइनिम्मिआणं, उचिअतमा मज्जणाईहि ॥७॥[चे.म.५४/सं.प्र.६७] कल्लाणगाईकज्जा, एगस्स विसेसपूअकरणे वि । नावण्णापरिणामो, जह धम्मिजणस्स सेसेसु ॥८॥ [चे.म.५३/सं.प्र.६८ ] उचिअपवत्तिं एवं, जहा कुणंतस्स होइ नावण्णा । तह मूलबिंबपूआविसेसकरणे वि तं नत्थि ॥९॥[सं.प्र./६९] जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥१०॥[चे.म.१४२/सं.प्र.७०] चेइहरेणं केइ, पसंतरूवेण केइ बिंबेणं । पूयाइसया अन्ने, अन्ने बुझंति उवएसा ॥११॥ [चे.म.१४३/सं.प्र.७१] इति ।
पूर्वं मूलबिम्बपूजायुक्तिमत्येवेत्यलं प्रसङ्गेन । सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्वं भगवतः स्नात्रं विधेयम् । तत्रायं विधिः -योगशास्त्रवृत्तिश्राद्धविधिवृत्तिलिखितः -
"प्रातः पूर्वं निर्माल्योत्सारणं प्रक्षालनं सक्षेपपूजा आरात्रिकं मङ्गलप्रदीपश्च, ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कमजलकलशः स्थाप्यः । ततः -
"मुक्तालङ्कारसारसौम्यत्वकान्तिकमनीयम् ।
सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम्" ॥१॥[] इत्युक्त्वालङ्कारोत्ताणं ।
"अवणिअकुसुमाहरणं, पयइपइट्ठिअमणोहरच्छायं ।
जिणरूवं मज्जणपीढसंठिअं वो सिवं दिसउ" ॥२॥[ ] इत्युक्त्वा निर्माल्योत्तारणं । ततः प्रागुक्तकलशढालनं पूजा च, अथ धौतधूपितकलशेषु स्नात्रार्हसुगन्धिजक्षेपः, श्रेण्या तेषां व्यवस्थापनम् , सद्वस्त्रेणाच्छादनं च, ततः स्व
१. चंदणपूअबलि° L.P.C. | वंदणपूयणबलि' इति चैत्यवन्दनमहाभाष्ये ॥ २. “ए-इति चैत्यवन्दनमहाभाष्ये ॥ ३. "हिं-मु० | L.P.C. चैत्यवन्दमहाभाष्येऽपि वि-इति ।। ४. धम्मियलोअस्स सेसेसु-इति चैत्यवन्दनमहाभाष्ये ॥ ५. बुज्झंति तहोवएसेणं-इति चैत्यवन्दनभाष्ये ॥ ६. सकुङ्कमःमु० C.P. श्राद्धविधिवृत्तौ अपि सकुङ्कम इति ।। ७. मज्जणपीठ' इति C. श्राद्धविधिवृत्तौ च ॥
D:\new/d-2.pm5\3rd proof