SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३२] [धर्मसंग्रहः-द्वितीयोऽधिकारः निशीथेऽपि –“सो उ गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ' [ ] तथा वसुदेवहिण्डौ -"वसुदेवो पच्चूसे कयसमत्तसावयसामाइआइनिअमो गहिअपच्चक्खाणो कयकाउसग्गथुइवंदणो"[ ]त्ति । एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्यादिभिश्चैत्यवन्दना कृतेत्युक्तम्। सा च जघन्यादिभेदात् त्रिधा। यद् भाष्यम् - "नमुक्कारेण जहन्ना, चिइवंदण मज्झ दंडथुइजुअला। पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा" ॥१॥ [चै.मू.भा./गा.२३] व्याख्या -नमस्कारेण -अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण, यद्वा नमो अरिहंताणमित्यादिना, अथवैकश्लोकादिरूपनमस्कारपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन, जातिनिर्देशाद् बहुभिरपि नमस्कारैः क्रियमाणा जघन्या स्वल्पा, पाठक्रिययोरल्पत्वात् , वन्दना भवतीति गम्यम् । तत्र प्रणामश्च पञ्चधा - "एकाङ्गः शिरसो नामे, स्याद् व्यङ्गः करयोर्द्वयोः । त्रयाणां नामने व्यङ्गः, करयोः शिरसस्तथा ॥१॥[] चतुर्णां करयोर्जान्वोर्नमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चनामने" ॥२॥[ ] इति १॥ तथा दण्डकश्च -अरिहंतचेइयाणमित्यादिश्चैत्यस्तवरूपः, स्तुतिः प्रतीता, या तदन्ते दीयते, तयोर्युगलं -युग्ममेते एव वा युगलं मध्यमा । एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति । तद्यथा - "निस्सकडमनिस्सकडे, वा वि चेइए सव्वहिँ थुई तिण्णि वेलं व चेइआणि व, नाउं एक्किक्किया वा वि" ॥१॥[बृ.क.भा./१८०४] यतो दण्डकावसाने एका स्तुतिर्दीयते इति दण्डकस्तुतियुगलं भवति २ ॥ तथा पञ्चदण्डकैः -शक्रस्तव १ चैत्यस्तव २ नामस्तव ३ श्रुतस्तव ४ सिद्धस्तवाख्यैः ५ स्तुतिचतुष्टयेन स्तवनेन जय वीयरायेत्यादिप्रणिधानेन चोत्कष्टा । इदं च व्याख्यानमेके - "तिण्णि वा कड्डई जाव, थुईओ तिसिलोइआ। ताव तत्थ अणुण्णायं, कारणेण परेण वा (वि)" ॥१॥[व्य.भा./३७७५ ] इत्येतां कल्पगाथां "पणिहाणं मुत्तसुत्तीए" [चै.मू.भा./गा.१८ ] इति च वचनमाश्रित्य कुर्वन्ति ३ ॥ वन्दनकचूर्णावप्युक्तम् - १.L.P.| हि-मु०॥२. यतो भाष्यम्-मु०॥३. नवकारेण० मु०॥४. तुला-सङ्घाचारभाष्यवृत्तिः प० १७६ ॥५.वि-L.P.C. ||६.वा-L.P.C. । उ-इति प्रवचनसारोद्धारे गा० ४३९॥७.च-मु० नास्ति ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy