SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ३६३ पाखण्डिभेदा:-श्लो० ४२॥] [१७३ यदृच्छावसानैः, सर्वे च षड् विकल्पाः । तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः । एकत्र द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । "अण्णाणिय सत्तट्ठि त्ति" अज्ञानिकानां सप्तषष्टिर्भेदा इति । तत्र कुत्सितं ज्ञानमज्ञानम् , तदेषामस्तीति अज्ञानिकाः। नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यम् , ततश्चाज्ञाना इति स्यात् , नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचरित्वात् , ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः । असंवित्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टितिव्याः -तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वम् , सदसत्त्वम् , अवाच्यत्वम् , सदावाच्यत्वम् , असदवाच्यत्वम् , सदसदवाच्यत्वमिति च । एकैकस्य जीवादेः सप्त सप्त विकल्पाः । एते नवसप्तकाः त्रिषष्टिः । उत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा –सत्त्वमसत्त्वं, सदसत्त्वम् , अवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति । को जानाति जीवः सन् ? इत्येको विकल्पः, ज्ञातेन वा किम् ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति, को जानातीत्येतत् ? न कश्चिदपीत्यभिप्रायः ।। "वेणइयाणं च बत्तीसं ति" वैनयिकानां च द्वात्रिंशभेदाः । विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः । एते चानवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः -सुर-नृपति-ज्ञाति-यति-स्थविरा-ऽवम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्यः इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेष्वेकत्र मेलिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि । न चैतत् स्वमनीषिकाव्याख्यानम् । यस्मादन्यैरप्युक्तम् - "आस्तिकमतमात्माद्या, नित्यानित्यात्मका नव पदार्थाः । काल-नियति-स्वभावेश्वरा-ऽऽत्मकृताः स्वपरसंस्थाः ॥१॥[ ] काल-यदृच्छा-नियतीश्वर-स्वभावा-ऽऽत्मतश्चतुरशीतिः । नास्तिकवादिगणमतं, न सन्ति सप्त स्वपरसंस्था ॥२॥[ ] १. L.P.C. I 'सहचारित्वात्-मु० आवश्यकहारिभद्र्यां वृत्तौ [प० ८१७] च ।। २. तुलाप्रवचनसारोद्धारवृत्तिः गा० १२०१ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy