________________
प्रथमशिक्षाव्रतस्वरूपम् - श्लो० ३७ ॥ ]
[ १५१
I
करोमीत्यर्थः । अथवा 'पच्चक्खामि' त्ति प्रत्याचक्षे " चक्षिङ् व्यक्तायां वाचि " [ हैमधातुपाठे २/६४] इत्यस्य प्रत्याङ्पूर्वस्य रूपम्, प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । 'जाव साहू पज्जुवासामि' यावच्छब्दः परिमाण - मर्यादा - ऽवधारणवचनः । तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत् प्रत्याख्यामीति, मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुः तावदेव, न तस्मात् परत इत्यर्थः ।
'दुविहं तिविहेणं' द्वे विधे यस्य य द्विविधः सावद्ययोगः । स च प्रत्याख्येयत्वेन कर्म सम्पद्यते, अतस्तं द्विविधं योगं करण-कारणलक्षणम् । अनुमतिप्रतिषेधस्य गृहस्थेन कर्तुमशक्यत्वात् । पुत्रभृत्यादिकृतव्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । 'त्रिविधेन' इति करणे तृतीया । मणेणमित्यादि सूत्रोपात्तं विवरणम्, मनसा वचसा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य विवरणम् । अत्र उद्देशक्रममुल्लङ्घ्य व्यत्यासेन निर्देशस्तु योगस्य करणाधीनतादर्शनार्थम् । करणाधीनता हि योगानां करणभावे भावात् तदभावेऽभावाच्च योगस्य । 'तस्से'ति तस्य अत्राधिकृतो योग सम्बन्ध्यते, अवयवावयविभावलक्षणसम्बन्धे षष्ठीयम्, योगस्त्रिकालविषयस्तस्यातीतमवयवं ‘प्रतिक्रमामि' निवर्त्ते प्रतीपं क्रमामीत्यर्थ: । 'निन्दामि' जुगुप्से, 'गर्हामि' स एवार्थः, परं केवलमात्मसाक्षिकी गर्हा । भंते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थमपुनरुक्तम् । अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैत् ज्ञापितं –सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण -
'सामाइअपच्चप्पणवयणो वाऽयं भयंतसद्दोऽवि ।
44
सव्वकिरिआवसाणे, भणिअं पच्चप्पणमणेण ॥१॥ [ विशेषा. भा. / ३५७१ ] ‘अप्पाणम्’ इति आत्मानम् अतीतकालसावद्ययोगकारिणं 'वोसिरामि' इति व्युत्सृजामि, विशब्दो विविधार्थो विशेषार्थो वा, विविधं विशेषेण वा, भृशं त्यजामीत्यर्थः । सामायिकग्रहणकाले सावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयात्मनवपर्यायोत् पादात्पर्यायपर्यायिणोः स्यादभिन्नत्वादहं नव्य उत्पन्नः, 44 'आया खलु सामाइअं '' [ आ.नि./७९० ] इत्याद्युक्तेः ।
१. यावत्साधुपर्युपासनं मम तावदेव - इति योगशास्त्रवृत्तौ प० ४८० ॥ २. सावद्यो योगः - इति योगशास्त्रवृत्तौ ॥ ३. तुला - आवश्यकहारिभद्रीयवृत्तिः प० ४८० ॥ ४. षष्ठी, योऽयं योग° इति योगशास्त्रवृत्तौ । तुला - आवश्यकहारिभद्रीयवृत्तिः प० ४८४ ॥ ५. तुला आवश्यकसूत्रस्य हारिभद्रयवृत्तिः प० ३८६, B४५५ ४८४B || ६. वा, उच्छब्दो भृशार्थ: विविधं विशे० इति योगशास्त्रवृत्तौ प० ४८१ ॥
D:\new/d-1.pm5\ 3rd proof