________________
[ धर्मसंग्रहः - द्वितीयोऽधिकारः
अतोऽशक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात् । तदापि सद्य एव परिहार्यं मनोनिग्रहयतनया । यदाह - मनोनिग्रहभावनाकृत् -
"साहूण सावगाण य, धम्मो जो कोइ वित्थ भणिओ ।
सो मणनिग्गहसारो, जं फलसिद्धी तओ भणिआ" ॥१॥ [म.भा. / १८ ] पापोपदेश-हिंस्रप्रदाने च स्वजनादावन्यथा निर्वाहादर्शनात् दुःशक्यपरिहारे, अन्येषु तु पापाद्यनर्थफले एव । तदुक्तं लौकिकैरपि
१४८]
-
"न ग्राह्याणि न देयानि पञ्च द्रव्याणि पण्डितैः ।
अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम्" ॥१॥ [ ] प्रमादाचरितेऽपि मुधैवायतनादिनिमित्तो हिंसादिदोषः । अत एवाह
" तुल्ले वि उअरभरणे, मूढअमूढाण अंतरं पिच्छ ।
एगाण नरयदुक्खं, अन्नेसिं सासयं सुक्खं" ॥१॥ [ ष.श./२१ ] यतनां विना च प्रवृत्तौ सर्वत्रानर्थदण्ड एव, अतः सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयम् । यतः -
44 'जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव ।
तव्वुड्डिकरी जयणा, एगंतसुहावहा जयणा ॥१॥[ उप.प./७६९] निरर्थकपापेऽधिककर्मबन्धादिदोषोऽपि । यतः -
—
""
44
'अद्वेण तं न बंधइ, जमणद्वेणं तु थेवबहुभावा ।
अट्ठे कालाईआ, निआमगा न उ अणट्ठाए" ॥१॥ [ श्रा.प्र./२९० ] अतश्चतुर्विधोऽप्ययं त्याज्य इति ||३६||
D:\new/d-1.pm5\3rd proof
उक्तानि त्रीणि गुणव्रतानि, अथ शिक्षापदव्रतान्युच्यन्ते - -तत्र शिक्षणं शिक्षाऽभ्यासस्तस्यै तस्या वा पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि । तानि च चत्वारि भवन्ति । तद्यथा –सामायिकम्, देशावकाशिकम्, पौषधोपवासः, अतिथिसंविभागश्चेति । स्वल्पकालिकत्वाच्चैतेषां गुणव्रतेभ्यो भेदः, गुणव्रतानि तु प्रायो यावज्जीविकानि । एतेष्वपि -
‘“सामायिक –देशावकाशिके प्रतिदिवसानुष्ठेये पुनः पुनरुच्चारणीये। पौषधोपवासाऽतिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ " [ प० २३२ ] इति विवेक आवश्यकवृत्तौ कृतः ।
१. आवश्यकवृत्तिकृत : - मु० C. I