________________
तृतीयगुणव्रतानर्थदण्डभेदा:-श्लो० ३६॥]
[१४५ "वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने ।
खचरत्वाद्यपध्यानं, मुहूर्तात् परतस्त्यजेत् ॥१॥[योग.शा.३/७५ ] इति । तथा पातयति नरकादाविति पापम् , तत्प्रधानं तद्धेतुभूतं वा कर्म पापकर्म - कृष्यादि तस्योपदेशः -प्रवर्तनवाक्यं पापकर्मोपदेशः । स च यथा -
"क्षेत्रं कृष, वृषवृन्दं दमय, हयान् षण्डय, (शण्ढय) क्रथय शत्रून् , यन्त्रं वाहय, शस्त्रं सज्जय, पापोपदेशोऽयम् । एवं प्रत्यासीदति वर्षाकालो, दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां हल-फलादि । अतिक्रामति वापकालो, भृताः केदारा गाह्यन्तां सार्द्धदिनत्रयमध्ये, उप्यन्तां च व्रीहयः । जातावयःस्था कन्यका विवाह्यतां शीघ्रम् , प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतः श्रावकेण त्याज्यः, अपवादतस्त दाक्षिण्यादिविषये यतना विधेया । यतो योगशास्त्रे
"वृषभान् दमय क्षेत्रं, कृष षण्डय वाजिनः ।
दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते" ॥१॥[यो.शा.३/७६] इति । तथा हिंसन्तीति हिंसका-हिंसोपकरणानि आयुधानलविषादयस्तेषामर्पणं -दानं हिंसकार्पणम् , हिंस्रमपि हि उत्सर्गतो न देयम् , अपवादतस्तु दाक्षिण्यादिविषये यतना कार्या । यतो योगशास्त्रे
"यन्त्र-लाङ्गल-शस्त्रा-ऽग्नि-मुशलोलूखलादिकम् ।
दाक्षिण्याविषये हिंस्त्रं, नार्पयेत् करुणापरः" ॥१॥[यो.शा.३/७७] इति । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणमिति । प्रमादश्च -"मज्जं विसयकसाया, णिद्दा विकहा य पञ्चमी भणिय" [उत्तराध्ययननियुक्तिः गा० १८०] त्ति पञ्चविधस्तदाचरणमपि वर्म्यमेव । एतत्प्रपञ्चो योगशास्त्रे यथा -
"कुतूहलाद् गीतनृत्ते, नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् ॥१॥ [यो.शा.३/७८ ]
१. खे मु० । L.P. योगशास्त्रेऽपि-ख” इति ।। २. खण्डय-L.P.C. ॥ ३. कथय-मु० । १०४५ क्रथ १०४६ क्लथ हिंसार्थाः [धातुपाठे भ्वादि गणे] ३९४ क्रथ ३९५ अदिण् हिंसायाम् [धातुपाठे चुरादिगणे ।] ४. L.P. | दल मु० C. || ५. L.P. | जातावस्था-मु० । जातावयस्था-C. I ६. षण्ढय-इति योगशास्त्रे ॥ ७. तथा हिंसनशीलानि हिंस्राणि-हिंसो० L.P. || ८. 'त्त योगशास्त्रे । 'त्ये-मु० । इति ॥
D:\new/d-1.pm5\3rd proof