________________
२२ अभक्ष्यस्वरूपम् - श्लो० ३२-३४ ॥ ]
'वासासु पनरदिवसं, सिउण्हकालेसु मास दिणवीसं ।
उग्गाहिमं जईणं, कप्पई आरब्भ पढमदिणा " ॥१॥[]
44
केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद् गन्धरसादिना न विनश्यति तावदवगाहिमं शुध्यतीत्याहुः | दिनद्वयातीते दध्न्यपि जीवसंसक्तिर्यथा -
—
44
'जड़ मुग्गमासमाई, विदलं कच्चंमि गोरसे पड्ड् ।
ता तसजीवुप्पत्ति, भांति दहिए वि दुदिणुवरिं" ॥१॥[ ]
[ १३५
हारिभद्रदशवैकालिकवृत्तावपि - " रसजास्तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति [ द.वृ. ४ / १ / प० १४१ ] इति" " दध्यहर्द्वितयातीतम् " [ योगशास्त्रे ३/७ ] इति हैममपि वचः २०।
तथा तुच्छम् –असारं, पुष्पं च फलं च ते आदी यस्य तत् पुष्प- फलादि, 'चः' समुच्चये, आदिशब्दान्मूल-पत्रादिपरिग्रहः । तत्र तुच्छं पुष्पम् – अरणि- करीर - शिग्रूमधूकादिसम्बन्धि । तुच्छं फलं - मधूक - जम्बू-टिम्बरू-पीलू-पक्वकरमदेङ्गुदीफलपिञ्च-मकुर-वालुउलि-बृहद्वदर-कच्च-कुठिम्भड - खसखसादि । प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसम्मिश्रुत्वात् त्याज्यम्, अन्यदप्येतादृशं मूलादि । यद्वाऽर्द्धनिष्पन्नकोमलचवलकुमुद्गसि (शि) म्बादिकम्, तद्भक्षणे हि न तथाविध ( धा) तृप्ति - विराधना च भूयसी २१ ।
तथा आमेति, आमं च तत् गोरसं च आमगोरसं तत्र सम्पृक्तम् आमगोरससम्पृक्तम्, कच्चदुग्धदधितक्रसंमिलितं द्विदलम् केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् हेयम् । उक्तं च संसक्तनिर्युक्त्यादौ -
"सव्वेसु वि देसेसु, सव्वेसु वि चेव तह य कालेसुं ।
कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी" ॥१॥ [सं.प्र.श्रा./८४]
द्विदललक्षणं त्वेवमाहुः -
"जंमि उ पोलिज्जंते, नेहो न हु होइ बिंति तं विदलं ।
विदले वि हु उप्पन्नं, नेहजुअं होइ नो विदलं " ॥१॥ [ सं.प्र.श्रा./८५ ] इह हीयं स्थितिः –केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्याः । तत्र ये यथा
१. °णे-L.P. ॥ २. “पिचू' P.L. ॥ ३. शिम्बादिकम् - इति प्रवचनसारोद्धारवृत्तौ प० १५४ । सिङ्गादिकं-इति श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ४ तथाविधा - इति प्रवचनसारोद्धारवृत्तौ प० १५४, श्राद्धप्रतिक्रमणवृत्तौ प० ११८ ॥ ५. L. P. | 'तक्रमिलितं मु० C. ॥
D:\new/d-1.pm5\3rd proof