________________
७४]
[धर्मसंग्रहः-द्वितीयोऽधिकार: विषयतृष्णातरलितमनसां च कथं शम: ? तदभावे च कथं सम्यक्त्वसंभव: ? इति चेत् ? मैवम् , लिङ्गिनि सम्यक्त्वे सति लिङ्गैरवश्यं भाव्यमिति नायं नियमः, दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः । भस्मच्छन्नस्य वा वर्तेर्न धूमलेशोऽपीति । अयं तु नियमः, सुपरीक्षितो -लिङ्गे सति लिङ्गी भवत्येव । यदाह -
"लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे, संबन्धो लिङ्ग-लिङ्गिनो" ॥१॥ [प्रमा.स.स्वा.] इति ।
संज्वलनकषायोदयाद्वा कृष्णादीनां क्रोधकण्डूविषयतृष्णे । संज्वलना अपि केचन कषायास्तीव्रतयाऽनन्तानुबन्धिसदृशविपाका इति सर्वमवदातम् १।।
संवेगो मोक्षाभिलाषः । सम्यग्दृष्टिहिं नरेन्द्र-सुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाद्दुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति च । यदाह -
"नरविबहेसरसक्खं, दक्खं चिअभावओ अ मन्नंतो। संवेगओ न मोक्खं, मोत्तूणं किंचि पत्थेइ" ॥२॥
[ध.सं.णी/८०९, श्रा.प्र./गा.५६, वि.वि.६/११] त्ति । निर्वेदो भववैराग्यम् , सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथा कदर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निविण्णो भवति । यदाह -
"नारयतिरिअनरामरभवेसु निव्वेअओ वसइ दुक्खं । अकयपरलोअमग्गो, ममत्तविसवेगरहिओ अ" ॥१॥
__ [ध.सं.णी/८१०, विं.वि./६/१३, श्रा.प्र./५७] अन्ये तु संवेग-निर्वेदयोरर्थविपर्यासमाहुः – संवेगो भवविरागः, निर्वेदो मोक्षाभिलाष इति ३।
अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपातेन तु करुणा पुत्रादौ व्याघ्रादीनामप्यस्त्येव सा चानुकम्पा द्रव्यतो भावतश्चेति द्विधा । द्रव्यतः सत्यां शक्ती दुःखप्रतिकारेण, भावतश्चार्द्रहृदयत्वेन । यदाह -
"दठूण पाणिनिवहं, भीमे भवसागरंमि दुक्खत्तं ।। अविसेसओऽणुकंपं, दुहा वि सामत्थओ कुणइ" ॥४॥
[श्रा.प्र./५८, वि.वि./६/१२, ध.सं.णी/८११] त्ति । १. तुला-प्रवचनसारोद्धारवृत्तिः खण्ड २ । प० १७४ ॥ २. पाशकै मु० | L.P.C. योगशास्त्रप्रवचनसारोद्धारवृत्त्योरपि-पाशिकै ॥३. चानुकम्प मु० | L.P.C. योगशास्त्रप्रवचनसारोद्धारवृत्त्योरपिचानुकम्पा० इति ।। ४. अविसेओ० मु० | L.P.C. योगशास्त्रवृत्तावपि अविसेसओ-इति ।।
D:\new/d-1.pm5\3rd proof