________________
सम्यक्त्वलक्षणानि-श्लो० २२॥]
[७३ तस्य गुरोराचार्यस्य मूलमन्तिकं गुरुमूलं, तत्र गुरुमूलेऽनेनान्यत्र धर्मश्रवणप्रतिषेधो दर्शितः, विपर्यस्तबोधसम्भवात् । 'श्रुतधर्मः' आकर्णिताणुव्रतादिप्रतिपादनपराप्तप्रवचनः । अनेन चाश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिर्न सम्यगिति तत्प्रतिषेधो दर्शितो । यदाह - ___जस्स नो इमं उवगयं भवइ, इमे जीवा इमे थावरा (इमे तसा) तस्स नो सुपच्चक्खायं भवइ, से दुप्पच्चक्खायं भवइ, से दुप्पच्चक्खाई मोसं भासइ, नो सच्चं भासइ"[ ] त्ति ।
तथा स्वयमुत्प्रेक्षितशास्त्रस्यापि प्रतिषेध उक्तः । स्वयमुत्प्रेक्षणे हि सम्यक्शास्त्रानवगमेन सम्यक्प्रवृत्त्यभावात् । यदाह -
"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् ।
प्रकटितपश्चाद्भागं, पश्यत नृत्यं मयूराणाम्" ॥१॥[] तथा श्रुतधर्मत्वादेव संविग्नो मोक्षाभिलाषी सन् संसारभीतो वा, अन्यथाविधस्य हि व्रतप्रतिपत्तिर्न मोक्षाय स्यात् । इत्वरमल्पकालम् , इतरं वा बहुकालं यावज्जीवमित्यर्थः । इति पूर्वगाथासूचितो वधवर्जनविधिः । इत्यलं प्रासङ्गिकेन । प्रकृतं प्रस्तुमः - ____ तच्च सम्यक्त्वं शुभात्मपरिणामरूपमस्मदीयानामप्रत्यक्षं केवलं लिङ्गैर्लक्ष्यते । अत आह-सम्यक्त्वं कीदृशं भवति ? 'पञ्च' इति पञ्चभिः शम-संवेग-निर्वेदाऽनुकम्पा-ऽऽस्तिक्यरूपैर्लक्षणैर्लिङ्गैर्लक्षितम् उपलक्षितं भवति । एभिर्लक्षणैः परस्थं परोक्षमपि सम्यक्त्वं लक्ष्यते इति भावः ।
तत्र शमः प्रशमः अनन्तानुबन्धिनां कषायाणामनुदयः, स च प्रकृत्या कषायपरिणतेः कटुफलावलोकनाद्वा भवति । यदाह - "पयईए कम्माणं, नाऊणं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ, उवसमओ सव्वकालं पि" ॥१॥
[श्रा.प्र.५५, वि.वि.६/१०,ध.सं.णी/८०८] त्ति । अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः । अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्वा विषयतृष्णया च तरलीक्रियेत । ननु क्रोधकण्डूविषयतृष्णोपशमश्चेच्छमस्तर्हि श्रेणिक-कृष्णादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां
१. नो सच्चं भासं भासइ-P | L नास्ति ॥ २. ति-L.P.C. || ३. ज्ञातध मु० । श्रुत ध' L.P.C. || ४. मस्मदीयानाम० मु० C. I "मस्मदादीनाम P.L. || ५. तुला-योगशास्त्रवृत्ति २/१५ प०१७९ तः।।
D:\new/d-1.pm5\3rd proof