________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् माज्यानि प्राज्ययोज्यानि कुण्डलीप्रमुखानि ते । शालिदालिघृतालीनि भोजनानि अपाचयन् ।। केसराणां सुवारीणि चूर्णानि सुरभीणि च । अकारयन् छटाय ते पटवासाय च स्फुटम् ॥६३॥ कर्पूरागरुकस्तूरीचन्दनादीनि चानयन् । वस्तूनि ते प्रशस्तानि प्रतिमार्चनहेतवे ॥१४॥ यथायोग्यं यथाशास्त्रं यथाविधि यथोदितम् । प्रतिष्ठायोग्यसामग्री व्यधुरेवं बुधा हि ते ॥६५॥ मण्डपे मण्डयन् बिम्बैः श्रीसहस्रफणादिभिः । अनेकैः शोभितं श्रीमत्पाविम्बं ततस्तके ॥६६ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक । प्रतिष्ठासमयं ज्ञात्वा मण्डपेऽथ समागमत् ॥६७|| विम्बं श्रीपार्श्वनाथस्य श्रीसहस्रफणस्य च । विम्बरन्यैर्युतं मूरिः प्रत्यतिष्ठद्यथाविधि ॥६८॥ ततः श्रीजसवन्ताद्या भ्रातरः पञ्च भक्तितः । विजयदेवसूरीन्द्रनवाङ्गान्यभ्यपूपुजन् ॥६९|| । कारयित्वा प्रतिष्ठां ते रूपकाणि तदा ददुः । महाजनेभ्य इभ्योद्घाः परमानन्दमेदुराः ॥७॥ सूरीन्द्रोऽनेकसाधूनां श्रीपण्डितपदं ददौ । साधवः श्रावकाश्चान्ये तदा सन्तुतुषुस्तराम् ॥७॥ ततः पञ्चजनीनास्ते निमन्त्र्य श्रीमहाजनान् । प्रभोज्यं केसराम्बूनां छटाचूर्णैरपूपुजन् ॥७२॥ एवं श्रीमेडताङ्गेऽहत्पतिष्ठामहोत्सवः । विजयदेवमूरीन्द्रकृतः प्रावर्तताद्भुतः ॥७३॥ प्रतिष्ठासुरथापृच्छत् सूरिः सङ्घ जगद्गुरुः । अत आकारयन्त्यन्ये प्रतिष्ठै भवदाज्ञया ॥७४॥ ततः श्रीमेडताद्रङ्गवासी सोऽब्रवीदिति । प्रतिष्ठसे यदा सूरे त्वां निषेधति को जनः ॥७॥ परमत्रत्य सङ्घोऽयं भोज्यमाज्यं निषेधति । भोजने भोजनेष्टं च भो जनेश्वर सद्गुरो ! ॥७६॥ . स्मित्वा सुरिरपि प्राह श्रीसा विस्मयान्वितः । किं ब्रूषे सङ्घ सोऽप्याह चतुर्मासी कुरुष्व भोः॥ तत एवमभाषिष्ट मूरिः सङ्घ विचारवित् । चतुर्मासी विधातास्मि युष्माकं च समीहितम् ॥७८
__ अभिवन्दै जिनाधीशाः सन्ति ये तान् मरौ किल । अथवा-अभिवन्दै जिनाधीशप्रतिमा या मरौ हि ताः ।
तीर्थानि यानि विद्यन्ते तानि पश्यानि चात्मनाऽधुना ॥७९॥ प्रत्ययेऽस्मिन् गृहाणेदं मम स्वाध्यायपुस्तकम् । सत्यकारमिवेदं चेत्संघ नो मनुषे वचः ॥८॥ अस्मिन्नवसरे श्रीमत्पुरं योधपुरं वरम् । वरीवति मुखस्फूर्ति लक्ष्मीमूर्तिमयं सदा ॥८॥ गजसिंहो महाराजस्तत्र शश्वद्विराजते । पराजितपरानेकगजसिंहपराक्रमः ॥८२॥
६२-ते जसवन्तादयः पञ्च भ्रातरः भोजनानि अपाचयन् । कथंभूतानि प्राज्यानि प्रचुराणि प्राज्ययोज्यानि प्रवरहवियोजनीयानि भोजनानि । अपाचयन् इत्यत्र इकोऽसवर्णे साकल्यस्य हरवश्चेति प्रकृतिभावः, न इकोयणचीति यण् ।
६३-चूर्णानि अबीरगुलालप्रमुखभाषाप्रतिद्वानि ।
८०-हे सद्ध ! चेदिदं वचः चतुर्मासी स्थास्यामि इत्येतलक्षणं नो मनुषे तर्हि अस्मिन् प्रत्यये प्रतीतो इदं मम स्वाध्यायपुस्तकं सत्यंकारमिव गृहाण ।
Ahol Shrutgyanam