________________
श्रीवल्लभोपाध्यायविरचितं
[दशमः पद्मा पद्माशयं ज्ञात्वा पद्माख्यामिपतो असत् । स श्रीपमाभिधस्तत्र वसति व्यवहारिकः ॥८३|| कदापि यद्वचो न्याये भूपा नैवोदलड्न्यन् । वार्ता का चान्यलोकानां प्राविवाकमतल्लिका ||८४|| धर्मात्मा न च दुष्टात्मा द्वेषचेताः कदापि न । भक्तः समस्तसाधूनामासक्तः मुकृतेऽर्हतः ।।८।।
__-त्रिभिर्विशेषकम् । तस्य पुत्रावुभावास्तां भैरवाख्य-शुभात्यकौ । राज्ञः श्रीसूरसिंहस्य मन्त्रिणौ परमप्रियौ ।।८।। आयुषः क्षयतस्तौ हि प्रागेवागच्छतां दिवम् । वर्तन्ते च तयोः पुत्राः पौत्राः पद्माभिधस्य च ॥ तद्यथा-श्रीभैरवसुतः श्रीमान सिंहमल्लवलो नृषु ।श्रीसिंहमल्लनामास्ति मन्त्रिराजो महीपतेः॥ शुभाः शोभुशुभाः पुत्राः शुभाख्यस्य शुभा इव । चत्वारः प्रियचत्वारः एते सन्तीह सम्पति ॥ तानाह-प्रथमः सुखमल्लाख्यो द्वितीयो रायमल्लकः। तृतीयो रणमल्लाख्यस्तुर्यः प्रतापमल्लकः॥ श्रीपमाख्यस्य नप्तारस्त्रातारोऽमी नरान् भुवि । जिनधर्म विधातारो वर्तन्ते गुरुसेवकाः ॥९॥ सीहमल्लोऽभवत्पुण्यात श्रीमद्योधपुराधिपः । मेदिनीतटसङ्गनाथः श्रीसुखमल्लकः ॥१२॥ गजसिंहमहाराजराज्यभारधुरन्धरौ । गजसिंहमहाराजस्थापितौ तौ व्यराजताम् ॥९३॥ तयोः पितामहः श्रीमत्सुरीश्वरं विवन्दिषुः । श्रीपमाभिध आगच्छत् तदानीं मेदिनीतटे ।। तदा पद्माभिधो मन्त्री पमापद्ममदात्तराम् । महाजनाय सूरीन्द्रद्वयं नत्वातिभक्तितः ॥१५॥
(-महाजनाय सूरीन्द्रं प्रणिपत्याति भक्तितः -इति का पाठान्तरम् ) ततः श्रीमेडतादङ्गात् प्रास्थात् सूरीश्वरो द्रुतम् । धंधाणीति प्रसिद्धाख्ये द्रङ्गे नन्तुं जिनेश्वरान् ॥ मार्ग ग्रामीणसल्लोकान शीलधमै प्रपालयन् । घंघाणीनगरं प्राप श्रीमूरिः ससंयुतः ॥९७] समाजगाम तत्रापि श्रीपद्मः संघनायकः । नत्रा श्रीसीहमल्लेन देशाधीशेन संयुतः ॥९८||
८८-भइरवसुतः सीहमहः ।
८९-शुभाख्यस्य एते चत्वारः पुत्राः इह योधपुरे सन्ति । किं भूताः ? शुभाः शौर्यौदार्यादिगुणैमनोहराः । अत एव पुनः क. शोभुशुभाः शुभि दीप्तौ, शोभन्ते पुनः पुनरिति शोभुशुभाः सोमनीला इत्यर्थः । बहुलं गुणवृद्धी चादेरिति किडप्रत्यये सरूपद्विवे पूर्वस्य उकारे च साधुः । पुनः के० ? उत्प्रेक्ष्यन्ते-शुभा इव शुभयोगा इव | पुनः क० ! प्रियचत्वारः प्रियाः चत्वारो येषां गे प्रिय चत्वारः । चतुर्शब्दस्य उपलक्षणात् प्रियसी इत्यर्थः ।
९१-त्रातार: विधातार: ३त्युभवत्र न लोकाययनिष्ठाखलर्थतनामिति तृन् प्रत्यया. न्तत्वात् षष्ठीनिषेधात् ! नरान् जिनधर्ममया हितोया ।
९५-पद्मापद्मं लक्ष्मीनिधानम् । ९७-सङ्घसंयुतः श्रीमेडसाद्रशसञ्चसंयुक्त इत्यर्थः ।
Aho I Shrutgyanam