________________
श्रीवल्लभोपाध्यायविरचितं एवं विज्ञापितस्तेन ततः प्रास्थात् शुभेऽहनि । विजयदेवसूरीन्द्रो विजयसिंहसरियुक् ॥४६॥ श्रावका अपि ते प्रास्थन् जसवन्तादयस्ततः । श्रीमन्मेदतटद्रङ्गमाप्नुवंस्तेऽग्रतो द्रुतम् ॥४७॥ श्रीसूरिजन्तुजातानि प्रापयन् धर्ममाईतम् । श्रीमन्मेदतटद्रङ्गासमीपं समुपागमत ॥४८॥ श्रीहङ्गिरुहाः सर्वं जसवन्तादयस्ततः । श्रुत्वा मूरि समायात वन्दितुं चाभ्यसंघयन् ॥४९॥ अभिवन्द्यानयन् सूरि मेडतानगरान्तरे । विमान इव यत्रास्ति जनराजिन्युपाश्रये ॥५०॥
(-जनाश्रय उपाश्रये -इति वा पाठ) श्रीसूरीन्द्रः समारुह्य भद्रं भद्रासनं तदा । निदानं वाञ्छितदिनां जिनमुपादिशत् ॥५१॥ उदतिष्टत्ततः सङ्घः श्रुत्वा धर्म गुरूदितम् । मादासंघाय रूप्याणि जसवन्तो महाशयः ॥५२॥ एवं भेदतटदङ्ग विजयदेवसद्गुरोः । विजयसिंहसरेश्च जात आगमनोत्सवः ॥५३॥ अथ श्रीजसवन्तायाः श्रीहर्षाङ्गिरूहाः समे । सुरिं व्यज्ञपयन्भेवं प्रणम्य चरणाम्बुजम् ॥५४॥ प्रतिमानां प्रतिष्ठाई श्रेष्ठमीक्षस्व वासरम् । विजयदेवसूरीन्द्र ! सूरीन्द्रमणताम्बुजम् ! ॥५५॥ पुण्याई सुदिनाहं च ततः सूरिनिरैक्षत । माघमासे सिते पक्षे पञ्चमं पञ्चमं धुषु ॥५६।। मूरिस्तान ज्ञापयामास वासरं भासुरं शुभैः । माघमासस्य पक्षस्य शुक्लस्य खलु पश्चमम् ॥५७॥ अभ्युत्थाय ततः मूरि नत्वा गत्य च मन्दिरे । प्रतिष्ठायोग्यसामग्रीमग्रिमा ते ह्यकारयन् ॥५८॥ रोदस्योरन्तरालस्थं विमानद्वयमुन्नतम् । मण्डपद्यमानन्दविधायकमकारयत् ॥१९॥ लोकानां भोजनायोचं मन्दिरस्याग्रतः स्थितम् । प्रतिमानां प्रतिष्ठायै योग्यस्थाने द्वितीयकम् ॥ यशोजुगन्धरीस्फुर्जद्गअद्वन्द्वमिवं किमु । यशस्तण्डुलसद्गद्वन्द्वं वेति विदुर्जनाः ॥६॥
४९-अभ्य सन्घयन्-सङ्घन अभिमुखमगच्छन् । सवेन अभियाति अभिसङ्घयति । गाविष्ट वत्प्रातिपदिकस्य इति णौ रूपं । ततः अनद्यतने लङिति लङि प्रथमपुरुषबहुवचनमभ्य सङ्घयन्निति :
५०- मेडतानगरस्य अन्तरं मध्यं मेडतानगरान्तरं तस्मिन् । अत्र अन्तरशब्दो मध्यपायो न सर्वादिकार्यभाक् । कथंभूते उपाश्रये जनराजिनि-जनै राजत इत्येवं शीलो जनराजी तस्मिन् जनराजिनि । अथवा जनाश्रय उपाश्रये इति पाठान्तरं तत्रायमर्थः-कथंभूते उपाश्रये जनानां आश्रय इव जनाश्रयस्तस्मिन् । कथंभूते उपाश्रये ! विमाने इव विमानोपमाने इत्यर्थः । कथंभूते जनराजिनि सुरलोकशालिनि । जनाश्रय इति पाठे सुरलोकाश्रय इत्यर्थः । सूरि-प्रथमपक्षे श्रीविजयदेवसूरिं, द्वितीयपक्षे सूरि अर्थाद्वहस्पतिम् ।
५४-समे सर्वे पञ्चापीत्यर्थः । समशब्दोऽत्र सर्वपर्यायः सर्वादिकार्यभाक् । ५६-धुषु दिवसेषु । पञ्चमं मनोज्ञम् ।
६१-इदं मण्डपद्वयं जना इति विदुः-इत्यजानन् । इतीति किं किमु इति वितर्के । यशो जुगन्धरीस्फूर्जद्ञद्वन्द्वं । वा इति पक्षान्तरे । यशस्तण्डुलसद्गद्वन्द्वम् ।
Ahol Shrutgyanam