________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
मिथोऽङ्गीकृत्य पञ्चाऽपि श्रीप्रतिष्ठाविधापनम् (- मिथोऽङ्गीकृत्य पञ्चाप्यर्हत्प्रतिष्ठाविधापनम्इति वा पाठ: ) भ्रातृव्यं जिनदासाख्यमपृच्छन् यज्ज्येष्ठनन्दनः ||२८|| आलोच्यैव षडप्येते मिथोऽतिप्रीतचेतसः । अपृच्छन् मेडताद्रङ्गवासिस विवेकिनः ||२९|| तद्यथा - कोदारीवंश विख्यातष्टीलाख्यः श्रावकोत्तमः ।
सोनीवंशे जिनो नाम, सिंहः श्रीमालगोत्रकः ॥ ३० ॥ श्रीमालगोत्रसंजातः पेतसिंहाभिधोऽभवत् । पुत्रत्वेन धृतस्तेन भाति इङ्गरसिंहकः ||३१|| राजसिंहाभिधो मन्त्री, बल्लू नामा च मन्त्रिराट् । श्रीनाथो नाथनामा च, मन्त्री नरवदाङ्गः ॥ नगरव्यवहारीन्द्रमित्यादिसमुदायकम् । समाहूय च संभूय प्राणयन्निति ते मिथः ||३३|| - चतुर्भिः कलापकम् । प्रतिष्ठां पार्श्वनाथादिविम्बानां कारयाम हि । विजयदेवसूरीन्द्रमिहाहूय महोत्सवात् ॥ ३४|| तैः पृष्ट इति ते प्राहुर्वरं कुरुत भो वरम् । अत्रालस्यमपास्यं यत् धर्मस्य त्वरिता गतिः ||३५|| तानिदं ते पुनः प्राहुः सहास्माभिः समायत । प्रसीदतात्र सद्धर्मकार्ये यूयं महाजनाः ||३६|| प्यूचुरिति तान् सर्वान् प्रतिपन्नमिदं वचः । गुरुं विज्ञपयिष्यामः सहैष्यामश्च निश्चितम् ||३७|| ततः श्रीमेडताद्रङ्गवासिसंघसमन्विताः । मातिष्ठन्त शुभे तेऽह्नि श्रीसुवर्णगिरिं प्रति ||३८|| प्रचलन्तः समाजग्मुस्ते जाबालपुरे ततः । ववन्दिरे च सोत्साहाः श्रीसूरिचरणाम्बुजम् ||३९|| अभिवन्द्य तदानीं ते सूरिं व्यज्ञपयन्निति । गच्छनाथ समागच्छ श्रीमत्सन्मेदिनीतटे ॥४०॥ पार्श्वनाथादिदेवानां प्रतिमाः प्रतिष्ठ च । ततः समवसरणमासादे स्थापयामहि ॥४१॥ युग्मम् | मन्त्रिणं जयमल्लं ते मिलित्वा चावदन्निदम् । सूरीन्द्रं मुञ्च धर्मात्मनैति यत् वचोविना ।। ततः श्रीजयमल्लोऽपि मेदिनीतटसङ्घयुक् । उपसूरि समागत्य नत्वा चैव न्यवेदयत् ||४३|| जसवन्ताद्या इमे पञ्च श्रीहर्षतनयाः शुभाः । टीलादि - मेडताङ्गवासिसङ्गसमन्विताः॥४४॥ सूरे विज्ञपयन्तीति प्रतिमाः प्रतितिष्ठ हि । श्रीमन्मेदतटद्रङ्गमेहि नः कुरु चेप्सितम् ||४५ ॥ युग्मम्।
1
२८ - ज्येष्ठस्य बृहद्भ्रातुर्जीवराजाख्यस्य नन्दनः पुत्रः ज्येष्ठनन्दनः | 'ज्येष्ठः स्यादप्रजे ' इति मानेकार्थः ।
७९
३३- ते हर्षापुत्राः संभूय मिलित्वा इत्यादिसमुदायक कोठारी टीलाप्रमुख श्रीमेडतारा समाहूय मिथः इति प्राणयन् इत्यकथयन् । इतीति किं तदाह ।
३४ - हत्यिव्ययं निश्चये । ३५ - तैः हर्षपुत्रैः । ते टीलाप्रमुखाः । ३६-समावसेति-अव गतौ इति धातोस्समाङ्पूर्वस्य आगमनार्थस्य लोटो मध्यमपुरुष
बहुवचनम् ।
Aho ! Shrutgyanam