________________
श्रीवल्लभोपाध्यायविरचितं
[ दशमः श्रीनेम्यादिजिनाधीशान पूजयित्वाऽभिवन्द्य च । कृत्वा लम्भनिकां सई प्रभोज्य च ततोऽचलत्।। प्रचलन् सह संधैन तीर्थ शत्रुञ्जयाभिधम् । प्राप्यारुह्य च सोऽभ्यर्चदादिदेवादितीर्थपान् ॥१३॥ सो वारुह्य ततः संघं प्रभोज्यामृतभोजनम् । पाणौ प्रदाय रूप्याणि पुण्यमादाय चाचलत् ॥१४॥ श्रीमदहम्मदाबादं तत आगत्य सप्रभुः । अपूपुजज्जिनाधीशांश्चैत्येषु विविधेष्वपि ॥१५॥ विजयसेनसूरीन्द्र विजयदेवसद्गुरुम् । अभिवन्ध च सङ्घस्य मध्य आकार्य सोऽचयत् ॥१६॥ लम्भनिकां विधायाथ तत्रत्य श्रीमहाजने । प्रतस्थे प्रततस्थेमा ततो देशं स्वकं प्रति ॥१७॥ आयन् शंखेश्वरादीनि तीर्थान्यन्यानि चाध्वनि । पूजयन् भनी कुर्वन् प्रापार्बुदगिरिं च सः॥ पूजयित्वा जिनांस्तत्र कृत्वा लम्भनिकां च सः। श्रीमच्छिवपुरीस्वर्णगिरिदेवानपूपुजत् ॥१९॥ एवं धर्माननेकान् यो व्यदधाद् विधिपूर्वकम् । श्रीहर्षः कस्य हर्षाय नाभूद्धर्मपरायणः ॥२०॥ तस्य पुत्रा अमी सन्ति पञ्च पञ्चेन्द्रिया इव । विराजन्ते जगज्जोतीरूपा रूपश्रियाद्भुताः ॥२१॥ तद्यथा-प्रथमो जसवन्ताख्यो, द्वितीयो जयराजकः । तृतीयो नेमिदासश्च सामीदासश्चतुर्थकः।। श्रीमद्विमलदासश्च, पञ्चमः पञ्चमो गुणैः । पश्चाप्येते मिथः प्रीताः सर्वप्रीतिविधायकाः ॥२३॥
-त्रिभिविशेषकम् । पञ्चानामादिमस्तस्य जीवराजः सुतोऽभवत् । पितुः सेवापरत्वेन पितुः स्वर्गमनुव्रजत् ॥२४॥
(-पितृस्नेहाधिकत्वेन-इति वा पाठः) पञ्चापि चैकदेत्येते संभूयाचिन्तयन्मिथः । आत्मभिः कारितं श्रीमत्सुवर्णगिरिपत्तने ॥२५॥ श्रीमत्समवसरणप्रासादः सर्वतोऽद्भुतः । प्रतिमाः श्रीपार्श्वनाथादिजिनानां कारिता इमाः॥२६॥ ताः प्रतिष्ठापयामाऽऽशु यदि स्यात्सर्वसम्मतम् । श्रीविजयदेवसूरीन्द्रमिहाहय महादरात् ॥२७॥
-त्रिभिर्विशेषकम् । १८-आयन् आगच्छन्-इ गतौ अदादिः परस्मैपदि आपूर्वस्य अस्य धातोः शतप्रत्यये आयन् इति रूपम् ।
२३-'पञ्चमो रुचिरे दक्षे' इति वचनात् पञ्चमशब्दोऽत्र रुचिरपर्यायः ।
२६-श्रीमत्समवसरण इत्यत्र पदे श्लोकलक्षणाभावे पि षड्हस्वाक्षरपदं न दोषाय । यत् श्रीहेमचन्द्राचार्याः श्रीनेमिचरित्रे-"शुभेऽह्नि कनकवी कलाग्रहणहेतवे । उचितस्य कलाचार्यसार्पयामास भूपत्तिः ॥१॥" इति । यथा शुभेऽह्नि कनकवतीमित्यस्मिन् श्लोके पञ्चहस्वाक्षरं पदं न दुष्टं तथा श्रीमत्समवसरणमिति पदमपि न दुष्टं। प्रतिष्ठापयामेति च, ष्ठा गति निवृत्ती इत्यस्य हेतुमति चे लिणि चि अति होति पुगागमे उपसर्गात् सुनोति सुवतीति सकारस्य मूर्धन्ये लोट उत्तमपुरुषवचनम् ।
Aho I Shrutgyanam