________________
૭)
श्रीवल्लभोपाध्यायविरचितं
[ नवमः
agrigri मध्ये नानारत्नमयं वहिः । प्रत्यष्ठापयदुत्कृष्टं पहुं समच्छदान्वितम् ||३३१|| सूरेश्वरणयोर्वाधा माभूतुच्छापि कर्हिचित् । इति निश्चित्य सद्भक्तिधियेन्द्रादधिको यतः ॥ ३३२ आधिक्यमाह - अर्हतोऽध्वनि पन्न्यासे पद्मानीन्द्रो नवैव हि । मुञ्चेद्विरतो. मध्ये समवसरणस्य न ॥ उपाश्रयस्य मध्येsयं बहिस्तादपि चान्वहम् । पद्माधिकानि वासांसि प्रस्तृणाति पदोरधः ।। ३३४ - चतुर्भिः कलापकम् । उत्तिष्ठतात्कदाचिच कदाचित्तिष्ठतादयम् । यथोचितमुपर्यस्य ददानः पदवन्दनाम् ||३३५|| इति कारणतः पट्टप्रतिष्ठापनयोग्यता । मण्डपे शोभमानाऽभूद्यद्विवेकः प्रमोदकृत् ॥ ३३६॥ - इति पवर्णनम् । लोकचक्षुविनोदाय प्रारब्धं प्रेक्षणीयकम् । विजयदेवसूरीन्द्रोऽविशत्तमथ मण्डपम् ||३३७|| विजयसिंहसूरीन्द्रस्तं प्रविश्य यथोचितम् । श्रीमूरिवचसा श्रीमत्सिंहासन उपाविशत् ||३३८ पश्यतां सर्वलोकानामकरोत्पादवन्दनाम् । विजयसिंहसूरीणां विजयदेवसूरिराट् ||३३९|| यथाविधि तदानीं स द्वादशावर्तवन्दनाम् । व्यदधाच्छ्रीमतस्तस्य यदाचारः परः सताम् || ३४० वन्दनां ददतस्तस्य पट्टाः स्तम्भासनस्थिताः । बभुः पुंपुत्रिका इन्द्रास्तिरोजाता इवेक्षितुम् ॥ ( - व साक्षिणः - इति वा पाठ: ) । ३४१|| सूरिमन्त्रं जगच्छत्रमित्र सन्तापकारकम् । प्राददानाम्भोजात् प्रसादसुभगाद्गुरुः || ३४२ || श्रीजय सागराख्यस्य श्रीकीर्तिविजयस्य च । श्रीवाचकपदं प्रादात् सूरिर्यत्सर्वतोषकः।। ३४३ ।। अन्येषां साधुलोकानां विदुषां सजुषां नृणाम् । श्रीपण्डितपदं प्रादात् सूरीन्द्रो यद्विदेकवान् ॥ गीयमान शुभैर्गीतैः स्फूर्जज्जयजयारवैः । स्तूयमानो गुणैः पुण्यैर्मागधैर्विबुधैरपि ॥ ३४५॥ गतव्याधिः समाधिश्री लब्धसिद्धिः समृद्धिमान् । विजयसिंहसूरीन्द्रः माभवत् प्रभुताश्रया । ३४६ श्रीगुरौ प्रसन्ने हि किं न सिद्ध्यति वाञ्छितम् । अनीश्वरोऽपीश्वरः किं न नरः को भयेद्भुवि ।। सुरवरा युवती लोकास्तदा गेयान्यगाययन् । वाद्यान्यवादयन् वाद्यवादका अपि चोत्तमाः ॥ ३४८ ॥ नवताद्भुतम् । पुनः कथंभूतं ? अत एव सुरेन्द्राणां स्पृहणीयं । उतेति वितर्के नराणां का कथाकिं कथनीयमित्यर्थः । इति सिंहासनवर्णनम् ।
३३४ - स जयमल्ल उत्कृष्टं पट्ट पाटि इति लोकभाषाप्रसिद्धं प्रत्यष्ठापयत् । कथंभूतं पट्टे मध्ये श्रेष्ठकाष्ठमयं बहिर्नानारत्नमयं । पुनः कथंभूतं ? प्रच्छादान्वितं प्रछदैः विलावणा इति भाषाप्रसिद्वैरन्वितं युक्तं । कया प्रत्यष्ठापयन् । सूरेः श्रीविजयदेवसूरेश्चरणयोः कर्हिचित्तच्छापि बाधा माभूदिति धिया । कथंभूतः स जयमल्लः यतः इन्द्रादधिकः | तदेवाह - अर्हतोऽध्वनीत्यादि द्वाभ्यां अर्थः प्रसिद्ध एव ।
३३५ - अस्य पट्टस्य उपरि । इति पट्टवर्णनम् ।
Aho ! Shrutgyanam