________________
समें:
विजयदेवसूरि-माहात्म्यम् अथवा-चित्रचित्रिताः स्तम्भपुत्रिका यत्र रेजिरे । नृत्यन्य इव नर्तक्यः करैः क्षिप्तैः च चामरैः॥ पालम्बानि प्रलम्बानि यत्र लम्बिनी चोच्चकैः । मुक्तास्त्रजोऽपि सर्वत्र व्यराजन्त च सर्वतः ।। तानि ताश्च विलोक्यैवमशफन्त तदा जनाः । मङ्गल्या वृक्षजातीनां गुच्छामअरयश्च किम् ॥३२३ व्यराजयत्र सवारं रत्नादर्शविनिर्मितम् । प्रचण्डानेकमार्तण्डैरिपालैरिवाश्रितम् ॥३२४॥ पार्थबद्धद्वीपोद्दण्डमोच्चशुण्डाभतोरणम् । पश्यतां सर्वलोकानां परमानन्दकारणम् ॥३२॥ अथवा-इन्द्रसज्जीकृतोद्दण्डकोदण्डोपमतोरणम् । पश्यतां सर्वलोकानां सर्वकल्याणसूचकम् ।। मङ्गलैरष्टभिः श्रेष्ठमुक्तारत्नमयैः शुभैः। शोभमानं मनुष्याणां मनोनेत्रोत्सवपदम् ॥३२७॥
-चतुर्भिः कलापकम् । न्यवेशयदथात्यन्तमुन्नतं तत्र मण्डपे । सिंहासनमतिश्रेयो जयमल्लः शुभाश्रयः ॥३२७॥ शोभमानयथास्थानग्रथितानेकरत्नकम् । सुरेन्द्रासनशोभायाः सर्वथा व्यपहारकम् ॥३२८१ एतस्येवेदमीक्ष योग्यं नान्यस्य कर्हिचित् । विधात्रेति धिया स्वीयकराभ्यामिव किं कृतम् ॥ साधसाधूचितानेकविस्तीर्णनवताद्भुतम् । स्पृहणीयं सुरेन्द्राणां नराणामुत का कथा ॥३३०॥
-चतुभिः कलापकम् । ३२१-चित्रेति, अस्यान्वयलेश:-यत्र मण्डपे स्तम्भपुत्रिका रेनिरे । कथंभूता: ? उत्प्रेक्ष्यन्ते-क्षिप्तैः सुचामरैः करैत्यन्त्यो नर्तक्य इव । यथा नर्तक्यः क्षिप्तः करैर्नृत्यन्त्यो राजन्ते सथा स्तम्भपुत्रिकाः क्षिप्तः करैः सुचामरेत्यन्त्यो व्यराजन इत्यर्थः ।
३२२-मालम्बानि झुम्बका इति मापाप्रसिद्धानि या मण्डपे । ३२३-तानि प्रारम्बानि ताश्च मुक्ता स्रजः ।
३२९-३०, कथंभूतं सिंहासनं विशात्रा स्त्रीबकराभ्यां इति धिया किं कृतमिव । इतीति किं ईदक्षगिदं सिंहासनं, एतस्यैव श्रीविजयसिंहसरेरेव योग्य ! अन्यस्य नहिचित् । पुनः कथंभूतं सिंहासनं ? साधु साधूचिताने विस्तीर्णनबताइतम् । साधयो रमणीया उग्रक्रियाकर्तृत्वात् । ये साधवोऽनगारास्तेषामुचितानि योग्यानि अनेकानि प्रचुराणि विस्तीर्णानि यानि नक्तानीव नवतानि तैः-दलीचाप्रसुखविछायणासदृशवस्त्रैरद्भुतं यत्तत्तथा । 'कुथे वर्णपरिस्तोमप्रवेणी नवताऽस्ति सः' इति हैमवचनान्नवतशब्दस्य दलीचाप्रमुखस्य पर्यायत्वात् । नवतानीव नवतीति उत्तमाच्छादनवस्त्राणीति व्याख्या । प्रवेण्याऽऽस्तरणं वर्णः परित्तोमः कुशः कुथः नक्तं चेति तुल्यार्थाः । 'प्रच्छदश्चोत्तरच्छद' इति हलायुधः। 'नववर्णकंबले आच्छादनमात्रे वा' इति तट्टीकावचनात् । नवतशब्दोऽत्र आच्छादनप-योऽपि शेयः । तेन साधु साधूचितानि अनेकानि विस्तीणानि यानि नवतानि विच्छावणा इति भाषाप्रसिद्धानि तैरद्भुतं यत्तत् साधु साधूचितानेकविस्तीर्ण
Ahol Shrutgyanam