________________
७२
श्रीवल्लभोपाध्याय विरचितं
[नयमः
यत्रापि च सौवर्णपत्राकारहराणि हि । पीतवासांस्यभासन्त चन्द्रमास इवोद्गताः ॥ ३११|| अथवा-पीतवासः प्रशस्यश्री मिषमासाद्यपिञ्जरः । मेरुः सूरी प्रणन्तुं किं यत्रायात इवाबभौ || श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयम् । ( - प्रोदितादित्यचन्द्रमः - इति वा पाठ: ) । अवाभानभ एवेदं यत्र क्वाप्यसिताम्बरम् ||३१३ ॥ कुत्रचित्र वस्त्राणि पवित्राण्यरुणानि च । लक्ष्मीपुष्पकुलानीव लक्ष्मीं दातुं नृणां वभुः ॥ ३१४ अथवा कुत्रचिद्यत्र वस्त्राणि रक्तानि नृमनांसि हि । कर्तुं हीङ्गुलवृन्दानि रक्तानीव बभ्रुर्गुरौ ॥ यत्रान्यत्र च कुत्रापि नीलवस्त्राणि रेजिरे । हरिन्मणिकुलानीव निराकर्तुं द्विषद्विषम् ||३१६|| उन्नापुण्डरीकालिखि यत्र व्यराजत । स्तम्भश्रेणिः सुखश्रेणिकारणं सरसि स्फुटम् ॥३१७॥ अथवा - साक्षान्निशामणिश्रेणिः समकालमिवोदिता । द्रष्टुं तद्वन्दनां यत्र स्तम्भश्रेणिस्तदा बभौ ।। यत्र चन्द्रोदयः साक्षाच्चन्द्रोदय इव व्यभात् । अभितो मोक्तिकस्रग्भिस्तारकाभिर्विराजितः। ३१९ आस्थानवेदिकास्तम्भपुत्रिका देवता इव । यत्र वीजयितुं सूरिं स्थिता इव सुचामरैः || ३२०||
३१२-यत्र वन्दनोत्सवमण्डपे मेरुः सूरी श्रीविजयदेवसूरि-श्रीविजयसिंहसूरी कर्मतापन्नौ प्रणन्तु किमायात इव आ बभौ शुशुभे । किं कृत्वा ? क्वापि कस्मिन्नपि स्थले पीतवासः प्रशस्यश्री मिषमासाद्य
1
३१३ - यत्र मण्डपे कापि कुत्रचित्स्थले असिताम्बरं कालं वखं इदं नभ एव आकाशमित्र अबाभात् अतिशयेन अदीध्यत । अत्र एवेत्यव्ययमिवार्थे । कथं भूतं कालं वस्त्रं श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयं श्वेतपीताम्बरयोर्धवलपिङ्गचेयज्योंतिः कान्तिस्तदेव सूर्यचन्द्रयोरुदित उदयो यस्मिंस्तत्तथा । कथं भूतं नमः ? श्वेतपीताम्बर योधैव लपिङ्गलचेल योज्योतिः कान्तिर्ययोस्तौ वेतपीताम्बरज्योतिषौ । एवं विधीयौ सून्द्रयोः उदित उदयो यस्मिंस्तत्तथा । श्वेतपीताम्वरज्योतिः प्रोदितादित्यचन्द्रमः इति पाठान्तरम् । तत्रायमर्थः किं भूतं ? असिताम्ब M श्वेतपीताम्बरज्योतिरेव । प्रोदितो आदित्यचन्द्रमसौ यस्मिंस्तत्तथा । यस्मिन् श्यामवस्त्रे पूर्वापरनिबद्धश्वेतपीताम्बरज्योतिरेव प्रोदितादित्यचन्द्रमसौ इव शोभते । द्वितीयपक्षे नभो विशेषणे श्वेतपीताम्रज्योतिषौ प्रोदितौ आदित्यचन्द्रमसौ स्थितत्तया । कवयो हि सूर्य श्वेतवर्ण वर्णयन्ति, चन्द्रं च पीतवर्णमिति ।
३१४ - लक्ष्मीपुष्पं पद्मरागमणिः ।
३१५ - कथंभूतानि रक्तानि वस्त्राणि उत्ोक्ष्यन्ते - निश्चितं गुरौ श्रीविजयसिंहसूरौ नृमनांसि रक्तानि कर्तुं हिङ्गुलवृन्दानीव । इवोऽत्र मित्रक्रमे ।
३१६-अप्रेतनेनान्वयः | यत्र मण्डपे स्तम्भश्रेणिर्व्यराजत । कस्मिन् केव - सरसि उन्नालपुण्डरीकालिरिख । कथंभूता स्वम्भश्रेणिः उन्नालपुण्डरीका लिश्च - स्फुटं सुखश्रेणिकारणम् ।
Aho ! Shrutgyanam