________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
st
I
अवस्था न साधूनामेकत्र किल युज्यते । अतोऽतोऽथ प्रतिष्ठेय भवदाज्ञा भवेद्यदि ॥ २९६ ॥ श्रुत्वेति वचनं सूरिप्ररूपितमनिन्दितम् । संगृह्य चरणौ मूर्द्धा संस्पृश्येति च सोऽवदत् ॥ २९७॥ विजयसिंहसूरीन्द्रवदनकमहोत्सवम् । स्वयं कुरु गुरुश्रेयः श्रेयांस करवै च तम ॥२९८॥ इत्युक्तो जयमल्लेन स्वमनोरथसिद्धये । भवत्वेवं महाभाग सूरिराह प्रसन्नहृद् ॥ २९९ ॥ ततः श्रीजयमल्लोऽथ श्रावकान् देशदेशतः । श्रीमच्छिवपुरीवासितेजपालादिकान् घनान् । ३००३ विजयसिंहसूर्य हिन्दनोत्सव उत्तमः । भवितात्राऽतः समायान्तु मयि भूत्वा कृपापराः ॥३०१॥ aat द्रव्यार्थिनः केsपि केsपि धर्मव्यथार्थिनः । केऽपि कौतुकिनो दक्षाः केऽपि तद्वन्दनोत्सुकाः ॥ अश्वारोहा रथारोहा ओष्ट्रारोहाच केचन । पदातिका अनेके च राजान इव राजिताः ॥ ३०३ ॥ सासिकाः सपत्नीका वरस्त्रीकाः समातरः । महाजनाः समाजग्मुर्बहिरन्तश्च चारिणः ॥ ३०४ || - त्रिभिर्विशेषकम् | सौवर्णानि सुवर्णानि काय आभरणानि च । देवानामिव देवीनामित्र पुंसां च योषिताम् ॥ ३०५ ॥ सुवर्णमिव सत्पस्नंस्त्रणं चात्यन्तमोहकम्। तदेत्याहुर्जना वीक्ष्य सुवर्णगिरिशेषकः ॥ ३०६ ॥ युग्मम् यत्रानेकगवादीनां भूरिर्मारिरभूत्पुरा । अपूर्वा न कदा पूर्व साऽभूच्छ्रीगुरुतेजसा ॥३०७॥ सुवर्णगिरिरित्याख्या यथार्थाद्याभवच्छुभा । इति ब्रुवन्ति सल्लोका यद्यथादृष्टसूचकाः ॥ १०८॥ | अथ श्रीजयमल्लाख्यः सन्मण्डपममण्डयत् । पारदेशिकवस्त्राणां वन्दनोत्सव हेतवे ॥ ३०९ ॥ अथ वन्दनोत्सवमण्डपत्रर्णनम् -
श्री कैलासशिलातुल्याचञ्चुराः शुचयः सिचः । व्यभुव्वन्तिहृतो यत्र मध्याह्नार्कप्रभा इव । ३१० ॥
२९६-अतः अस्मात्कारणात् । अतः श्रीसुवर्णगिरिनगरात् ।
!
३०४ - धर्माधर्मनिमित्तं व्ययमर्थयंतीत्येवं शीलाः धर्मव्यथिः । धर्मनिमित्तं व्ययकर्तार इत्यर्थः। तयोः श्रीविजयदेवसूरि- श्री विजयसिंहसूर्योर्वन्दना तस्यां उत्सुकास्तद्वन्दनोत्सुकाः । सह असिभिः अन्तःपुरचारिणोभिर्ये ते सासिक्कीका: । 'असिक्की स्यादवृद्धा या ध्यान्तःपुरचारिणीत्यमरः । सह पत्नीभिः परिणीतस्त्रीभिर्वत्तन्ते सपत्नीकाः ।
1
३०६-पुंसां समूहः पौंस्नं । स्त्रीणां समूहं स्त्रैणं । स्त्रीपुंसाभ्यां नञ्स्नजी भवनादिति समूहे ऽर्थे नतप्रत्यययो: साधू । एष एव एषकः । सर्वशब्देभ्यः स्वार्थे कन्निति कन् । सुव गिरिर्मेरुस्स इत्र । सुवर्णगिरिर्मेशपर्वतोपम इत्यर्थः ।
३०८—यत्रेति व्याख्याः–सल्लोका इति ब्रुवन्ति । इतीति किम् ? सुवर्णगिरिरित्या - ख्याय यथार्थोऽभवत् । इतीति किम् ? यत्र सुवर्णगिरौ अनेकगवादीनां भूरिर्मारिः पुराऽभूत् । सा न कदा पूर्व श्रीगुरुतेजसा अपूर्वा मारिरभूत् ।
Aho ! Shrutgyanam