________________
७० श्रीवल्लभोपाध्यायविरचितं
[नयमः श्रेष्ठेन विधिना सरिः प्रत्यष्टादुत्सवादथ । महावीरजिनेन्द्रस्य प्रतिमामपरा अपि ॥ २७९ ॥ प्रतिष्ठाय जिनेन्द्राणां चैत्यानि परमोत्सवैः । साधूनां विदुषां मूरिः प्रादात् पण्डितसत्पदम् ।। व्रतरत्नानि पञ्चैव साधूनां भाविनामपि । तानि द्वादश दिव्यानि श्रावकाणां विशेषतः।
(-साधुभ्यो जायमानेभ्यो व्रतरत्नानि पञ्च हि -इति वा पाठः)॥ २८१ ॥ युग्मम् ।। श्रावको जयमल्लोऽपि सत्पतिष्ठाविधायकः । श्रीसाधर्मिक लोकेभ्यः प्रादाद्प्याणि सद्धिया ।। साधुभ्यो दर्शनिभ्य श्च महात्मभ्योऽप्यनेकधा । अदभ्राण्यतिशुभ्राणि वस्त्राणि प्रवराणि च ॥ एवं प्रावर्तत श्रेयान प्रतिष्ठापरमोत्सवः । वर्णनीयः कवीन्द्राणां मूरिश्रावकयोस्तदा ॥२८॥ अथान्यदा च सूरीन्द्रस्ततश्चिचलिषोत्सुकः । इत्याख्यज्जयमल्लाख्यं मन्त्रिणं संघसंयुतम् ॥२८॥ इतीति किं तदाहश्रीनागपुरवास्तव्यः सङ्घः आह्वयति स्फुटम् । मेदिनीतटवास्तव्यस्तथान्योऽन्यत्र चान्वहम् ।२८६। यदि वयाः प्रसद्य त्वं तदाहं विहराण्यतावन्दनायुद्भवं पुण्यं प्रापयाणि तथा च तम्।२८७युग्मम् तदानीं जयमल्लोऽयमुत्थाय विनयान्वितः । प्राञ्जलिर्नम्रसन्मौलिः सर्वश्राद्धशिरोमणिः ॥२८॥ श्रीसुवर्णगिरिद्रङ्गवासी श्रीसङ्घ एव च । श्रेष्ठी लाधा महामन्त्री वर्धमानो महामतिः ।।२८९॥ साहः श्रीठाकुराख्यश्च साहुला श्रीकलाभिधः । वधा भ्रातृयुतोऽथान्यः साहः श्रीधर्मदासकः ॥ सङ्घपो डुङ्गरः श्रीमान् साहः श्रीडामराभिधः । वधमानादिको वर्षमानोऽमानश्रिया सदा ॥ विजयदेवसूरीन्द्रमित्थं व्यज्ञपयत्तराम् । साम्प्रतीनां चतुर्मासी निवस श्रेयसे गुरो ! ॥ २९२ ।।
-पञ्चभिः कुलकम् । मन्त्रिणो जयमल्लस्य सङ्घस्यापि च भूयसे । श्रेयसे हृदयानन्दद्धयै चोमकरोद् गुरुः ।।२९३॥ सामायिकोपवासाद्यान् व्रतोच्चारादिकांश्च सः । अर्हन्निव महाधर्मान कारयन्वारयन्नघम् ॥२९॥ धारयन् सर्वसंसारिजन्तुजातदयालुताम् । अपारयचतुर्मासी न भावं भविनां गुरुः ॥ २९४ ॥ चतुर्मासी समाप्याथ पुनश्चिचलिपुर्गुरुः। श्रीमन्तं जयमल्लारख्यमपृच्छच्छारकोत्तमम् ॥२९॥
गन्तव्यम् । यत्र तु भूयांसो लाभा भवेयुस्तत्र कथं न गन्तव्यं, अवश्यं तत्र गन्तव्यमित्याशयेन आगता इत्यर्थः।
२८४-सूरिश्रावकयोः श्रीविजयदेवमूरिश्रीजयमल्लावकयोः ।
२९३-ओमकरोत् चतुर्मासी करिष्यामीति अङ्गीकृतवान् । स्वादोम् परमं मते-- इति हैमः।
२९४-अपारयत समापयत । पारतारण कर्मसमानौ चुरादिरमन्तः परस्मैपदी ।
Aho I Shrutgyanam