________________
सगैः ]
विजयदेवसूरि-माहात्म्यम् आदरं परमं कृत्वा सह लात्वा च सद्गुरुम् । सम्पद्वन्दमिवानन्दं धृत्वा चित्ते च सोऽचलत् ।। अथ प्रभाते संजाते दिवारत्ने प्रभावति । तेजपालो नृणां रत्नं मूरिरत्नं न्यवेशयत् ॥ २६३ ॥ श्रीमच्छिवपुरीमध्ये सुखाश्रय उपाश्रये । दत्वा रूप्याणि लोकेभ्यः कृत्वा च प्रवरोत्सवम् ॥ जायमानैः सदाधः क्रियमाणैः स्वतः शुभैः। कार्यमाणैश्च लोकेभ्यो नव्यैर्नव्यैदिने दिने ।२६५। श्रीसूरीन्द्रश्चतुर्मासों समानोत्सुकृतोत्सवाम् । न च श्रीतेजपालस्य जिनधर्ममनोरथान् ।२६६युग्मम् चतुर्मासी समाप्यैवं प्राचलत्याचलद्वलः । विजयदेवसूरीन्द्रः प्रमत्तो न यतो यतिः ॥ २६७॥ श्रीसुवर्णगिरिद्रङ्गात् प्रैष्यं प्रेष्य समावयत् । जयमल्लस्तरोमल्लः श्रीसुवर्णगिरिप्रभुः ॥२६॥ उपस्वर्णगिरिग्रामे श्रीमूरिः समवासरत् । लोकवार्तामिति श्रुत्वा जयमल्लोऽभ्यसंघयत् ॥२६९।। अरसद् रसिका मूरिपदाब्जस्पर्शसद्सम् । मुखेनाऽलीव सन्मूत जयमल्लोऽग्रसंघयुक् ॥२७०।। हृद्यानन्यानवयेन विधिनवाभिवन्ध च । व्यययित्वा च सल्लोके सह लात्वा च सद्गुरुम् ।२७१। श्रीसुवर्णगिरिद्रङ्गे सरङ्गे सदुपाश्रये । समानीयाऽसयत् सिंहासने भूपमिवोत्तमम् ॥ २७२ ॥ ततः श्रुत्वोपदेशं च जयमल्लो जगजयी । महाजनकरे पादात् रूपकाणि महामनाः ॥२७३।।
-त्रिभिर्विशेषकम् । अथान्यदा च मूरीन्द्र जयमल्लो न्यवेदयत् । प्रशस्यदिवसं पश्य प्रतिष्ठायोग्यमर्हतः ॥ २७४ ॥ ततः सूरीश्वरोऽपश्यज्ज्येष्ठमासे शुभं दिनम् । प्रतिष्ठायोग्यमारोग्यकरं सौभाग्यकारकम् ॥२७५|| श्रावकं जयमल्लाख्यं सुवर्णगिरिनायकम् । सुवर्णगिरिसत्संघसमक्षं च न्यवेदयत् ॥२७६॥ ततः श्रीजयमल्लोऽपि देशदेशमहाजनान् । उपरिष्ठात्पतिष्ठायाः प्रैष्यान प्रेष्य समाह्वयत् ।।२७७|| आजन्मस्तत्क्षणात्तेऽपि प्रतिष्ठां द्रष्टुमुद्यताः। वन्दितुं च तदा सूरिद्वयं पुण्याभिलाषिणः ॥२७८॥
(-द्वयं लाभद्वयस्पृहा -इति वा पाठः )
२६७-प्रकर्षण अवलतू अविनश्यत् बलं मनोवलादित्रिकं यस्य प्राचलठ्ठलः ।
२६९-अभ्यसङ्घयत्-सद्धेन साधुसाध्वीश्रावकश्राविकालक्षणेन अभिमुखमगच्छत् इत्यर्थः। संघन अभियाति अभिसंधयति । णाविष्टवत्प्रातिपदिकस्येति गौरूपं । ततोऽनद्यतने लङ् इति लङि लुङ् लङ् लक्ष्वडुदात्त इति अडागमे प्रथमपुरुषस्यैकवचने अभ्य सङ्घयत् ।
___ २७३-सल्लोके भव्यलोके व्यययित्वा वित्तोत्सर्ग कृत्वा प्रत्येक पीरोजीनामकं नाणक दत्त्वेत्यर्थः । व्ययण वित्त समुत्सर्गे चुरादिरदन्तः परस्मैपदी ।
२७८-लाभद्वयस्पृहाः-एकः प्रतिष्ठादर्शनलक्षणो लाभः, द्वितीयश्च श्रीविजयदेवमूरिश्रीविजयसिंहमूरिद्वयवन्दनलक्षणो लाभ इत्यर्थः । लाभयोयं लाभद्वयं तस्मिन् स्पृहा वाञ्छा येषां ते लाभद्वयस्पृहाः । ननु यत्र अल्पोऽपि लाभः स्यात्तत्रापि लाभाभिलाषिणा नरेण
Ahol Shrutgyanam