________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् रूपकाण्यददाद्रूपं मन्त्री श्रीजयमल्लकः । स्वान्यदेशसमाहृतमहाजनकराम्बुजे ॥३४९॥ पट्टकूलान्यनेकानि मञ्जलानि नवानि च । याचकादिकलोकानां जयमल्लस्तदाऽददात् ॥३५०॥ दिव्यदालीर्घतव्याली सशालीः कलकुण्डलीः । अत्यादरात् स आहूय महाजनमभोजयत् ॥ एवं प्रावर्तत प्रेयान तदा वन्दनकोत्सवः । सर्वेषां हृदि चानन्दः प्राप्तात्मेहितसम्पदाम् ॥३५२ श्रीमत्सुरेरथादूरे वसन्नुपविशन्नपि । विजयसिंहमूरीन्द्रो जयताज्जगतीतले ॥३५३॥ दत्तं श्रीगुरुणा धर्मराज्यं लब्ध्वा सशोभताम् । सवित्रा निहितं तेजो दिनान्तेऽभिरिवाधिकम् ॥ दत्तमूरिपदं मूरि प्रभुं शुश्रवुषां च तम् । निःशल्ये हृदि शत्रणां सोऽतिशल्यमिवाभवत् ॥३५॥ प्रतिष्टितं तमाकर्ण्य गच्छराज्येऽधितेजसि । द्विषां प्रोद्धमिते पूर्व हृदि सोऽग्निरिवोत्थितः ।। तस्य सूर्योदयस्येव प्रातरुल्लोचनालयः । आनन्दन श्रावका लोका नवाभ्युत्थानदर्शकाः ॥३५॥ आक्रामद्गौरवं राज्यमरिन्दं च दुर्दमम । सममेव स सूरीन्द्रः प्रतापतपनोपमः ॥३५८॥ शत्रून् सिंहांश्च दुर्जेयान् तेजसा चोजसा क्षणात् । यो जयति विशेषात् स विजयसिंह उच्यते ॥ इति नामाऽभवद्यस्य ततः प्रभृति सार्थकम् । विजयसिंहसूरीन्द्रो जयतात्स चिरं भुवि ॥३६०॥ भट्टारकपदव्याजात् तमदृश्या स्वयं किल । भजतादुग्रतेजाः श्री राजत्साम्राज्यदीक्षितम् ॥३६१ सूरिः सर्वस्य लोकस्य चेत आचारतोऽद्भुतात् । आदत्तां नातिशीतोष्णः समीर इव दक्षिणः॥ चतुभिरधिकैर्ववर्षेऽशीतितमे शुभे । षोडशस्य शतस्यादि षष्ठे पौषसितस्य हि ॥३६॥ एवं प्रशस्यसम्पन्नलक्ष्मीकः कान्तकौतुकः । चिरंजीव्यात्स सूरीन्द्रो यस्यासीद्वन्द्वनोत्सवः॥३६४ तदैवमस्तुवन् लोका यं नवं गच्छनायकम् । आशिषं चेदृशीं यस्मै ददुनन्दतु स प्रभुः ॥३६॥
इत्थं श्रीविजयादिदेवसुगुरुः स्वीयेन सत्पाणिना,
प्राकार्षी द्विजयादिसिंहसुगुरोः पट्टाभिषेकोत्सवम् । ३४९-प्रशस्तं अददादूपं प्रशस्तं दत्तवानित्यर्थः। तिलोनुवृत्तेस्तिङन्तादपि प्रशंसायां रूपम् इति रूपप् ।
३५४-अग्नि चादित्यः प्रविशतीति श्रुतिः। यथाग्निर्दिनान्ते सूर्येण निहितं तेजः प्राप्याधिकं शोभते तथा श्रीविजयसिंहसूरिरपि श्रीगुरुणा श्रीविजयदेवसूरिगुरुणा दत्तं धर्मराज्थं लब्ध्वा शोभन्तामित्याशीः ।।
३५५-दत्तेति अस्यान्वयः-स श्रीविजयसिंहमूरिः शत्रूणां परमतप्रतिवादिनैयायिकादि. दर्शनियां हृदि अतिशल्यमिव अधिकशल्योपसोऽभवत् । कथंभूते हृदि ? निःशल्ये शल्यरहिते इत्यर्थः । कथंभूतानां शत्रूणां सूरि श्रीविजयदेवभट्टारकं दत्तसूरिपदं श्रीविजयसिंहसूरीणां सुरिपदं येन स तथा तं चः पुनः तं श्रीविजयसिंहसूरि प्रमुं स्वामिनं गच्छनायकं शुश्रूवुषाम् ।
Ahol Shrutgyanam