________________
६५
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
कस्माचिदपि श्रुत्वेति समवसरणं भुवि । साक्षात्सुचतुरं सारं रचितं चतुरैर्नरैः ॥ १८१ ॥ विलोकितुमिवायातस्तं न्तुं चैव तज्जिनान् । विमानोऽयमिति प्राहुर्ये बुधाः सुरभासुरः ॥ उत्सवात्कृत्शृङ्गाराः स्त्रियोऽथ सहजगृहे । अजेगीयन्त गेयानि सर्वदोषाश्रयेऽपि च ॥ १८३॥ वादित्राणि पवित्राणि बहुजातीन्यहर्दिक्म | सुस्वरस्वर्गतृणि वादका अभ्यवादयन् ॥ १८४॥ अवदन् वन्दिनो लोका यशांसि वदनाम्बुजात् । गुरूणां श्रावकाणां च द्वारे द्वारे गृहे गृहे ॥ पुण्याहानि किलाहानि पुण्यरात्रीच रात्रयः । अभवन्नत्र सर्वत्र नागरा अब्रुवन्निति ||१८६ | एवमाविरभूद्रङ्गे प्रतिमन्दिरमुत्सवः । उत्सवः पुण्ययनृणां भयेल्लोकोत्सवाय यत् ॥ १८७॥ श्रीयशीतितमे वर्षे षोडशस्य शतस्य हि । वैशाख शुक्लपण्ठेऽति प्रातर्भास्वति भास्वति || विजयदेवमुन्द्रो मण्डपं तं समासदत् । सोत्सवः साधुभिर्युक्तः कनकविजयादिभिः।।१८९ ।। arathi fonifer नागरैश्च जनैर्युतः । वीक्ष्यमाणो गुणैर्गीतयमानः पदे पदे ॥ १९०॥ त्रिभिर्विशेषकम् | ज्योtarai नन्द कारयित्वा यथाविधि । कनकविजयारूपस्य यूरिमन्त्रं श्रुतौ ददौ || दत्वा सूरिपदं दत्तानन्दवृन्दो जगद्गुरुः । विजयसिंह आचार्य इति नामाभ्ययान्मुखात् ॥ ( - इत्याख्यत् स्वमुखात् सुखात् - इति वा पाठ: ) श्रीकीर्तिविजयाख्याय लावण्यविजयाय च । उपाध्यायपदं दत्वा सूरिरेवमभाषत ॥ १९३॥ श्रीकीर्तिविजयाख्येोऽयं लावण्यविजयो लघुः ( - लावण्यविजयः पुनः - इति वा पाठ: ) उपाध्यायामि गच्छप्रभावकतमौ समौ ॥ १९४॥ युग्मम | ततः श्री सहजूनामा श्रावकः श्रद्धयाऽशृणोत् । विजयसिंहमूरीन्द्रमोक्कां धर्माशिषं सुखाम् ॥ सुख प्राप्त भूयात् सम्पदेऽभ्युदयाय च । जयाय च सदारीणां पञ्चैते परमेष्ठिनः || १९६ || श्रुत्वेत्युत्थाय चोत्साहात् तान्नत्वा सहजस्ततः । श्रीसङ्घानां समस्तानां करे रूप्याभ्यदान्मुदा ॥
१८१ - विलोकयितुं तमिति नदि | विलोकयितुं युग्मस्त्र व्याख्या-बुधाः पण्डिता यं मण्डप इति प्राहुः । इतीति किं ? चः पुनरर्थे । तजिनाम् तस्मिनन्दी दिवा अर्थाजिनप्रतिमास्तज्जिनास्तान् नन्तुं वन्दितुं आयात इव अर्थ विमानो व्योमवानं न तु मण्डप इत्यर्थः । व्योमयानं विमानोऽस्त्री' इत्यमरवचनात् । विमानसदस्य पुंनपुंसकलिङ्गाद पुल्लिङ्गनिर्देशः । कथंभूतो विमानः ? सुरमातुरः सुरैर्देवैर्भासुरः सुरभाः । मण्डदि देवानां चित्राणि स्युरतो विमानस्यापि सुरसहितत्वं दर्शितम् । किं विमान आदाब इत्याह-चतुरैर्नरैर्भुवि साक्षात् सारं समवसरणं रचितं इति कस्माञ्चिदपि श्रुत्वा । समवसरणं हि सुरा एवं रचयन्ति न नरा इति सुराणामाश्चर्यमतः सुररहित विमानागमनं समुचितं । कथंभूतं समवसरणं सुचतुरं शोभनाश्चत्वा रोऽर्थात् जिना यस्मिंस्तत् सुचतुरं । अचतुरविचतुरसुचतुरेति अच् प्रत्ययनिपातात् सिद्धिः ।
९
Aho ! Shrutgyanam