________________
६६
श्रीवल्लभोपाध्यायविरचितं
[ नवमः
आय सर्वदेशानां श्रीसंधान सोऽभ्यभोजयत् । सत्कारं चोत्तरं कृत्वा यथास्थानमचालयत् ॥ कनकविजयाख्यस्य जातः सूरिपदोत्सवः । जाते तस्मिन्ननेकेषां पुंसामासीन्महोत्सवः ॥ १९९॥ विजयदेवसूरीन्द्रः कुर्वन महोत्सवान् । विजयसिंहसूरीन्द्रयुतो जयतु भूतले ॥ २००॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूपनेत्रे इव विकस्वरे । ( - नेत्रे इव मनोहरे - इति वा पाठ: ) |२०१॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूप कर्णाविव विभूषकौ ॥ २०२॥ गुरुशिष्याgat सूरी समासीनौ विराजताम् | श्रीतपागच्छपुंरूपहस्तावित्र तरस्विनौ ॥२०३॥ वाञ्छितानां कार्याणां कारको स्वेच्छयाद्भुतम् ।
ararti areat aftaraणां च निवारकौ || २०४ || युग्मम् । एकस्तीर्थकरो यत्र द्वितीयस्तत्र नो भवेत् । एतौ प्रीतौ मिथःसूरी भात इत्यद्भुतं जने ॥ एकस्मिन्नेव साम्राज्ये सम्राडप्येक एव हि । पुण्याधिकमिदं यत्तु सम्राजौ राजतो सू || आसीनौ सम्मुखीनौ तौ सूर्याचन्द्रमसाविव । भातः प्राच्यां प्रतीच्यां च प्रातर्नेत्रसुखावहौ ॥ ( - प्रभाते पूर्णिमास्थितौ - इति वा पाठः ) एवं at विहरन्तौ द्वौ गुरुशिष्य गणाधिपौ । पुष्पदन्ताविवोद्यातौ दीप्येते इव भूतले ॥ - इति श्रीविजयदेवसूरिशिष्यश्री विजयसिंहसूरिवर्णनम् । अथास्मिन् समये क्षेत्रे भारते मरुमण्डले । श्रीमद् योधपुरं नाम पुरं पुरपुरोत्तमम् ॥ २०९ ॥ यत्र वा घनाः कूपाः सरसानि सरांस्यपि । मनोऽभिरामा आरामाः सौवर्गेभ्योऽग्रिमाः सुखाः।। महौजस्तत्र राजास्ति गजसिंहाभिधः सुधीः । पराक्रमपराभूतपरचक्रपराक्रमः ॥२११ || सिलेमसाहिरानन्दात् प्रातिसाहिः प्रसन्नदृक् । महाराजा अयं हीति यं प्राहोत्तमराजसु ॥ २१२॥ श्रीमानमरसिंहाख्यस्तस्य पुत्रो महर्षिकः । जयन्त इव शक्रस्य युवराजो विराजति ॥ २९३॥ तत्र साभिधः श्रेष्ठी श्रेष्ठोऽन्यव्यवहारिणाम् | राजमान्यो जगन्मान्यो न्यवसत्परमर्द्धिकः ॥ तस्य पुत्रोऽभूत्रयो वेदा इवोत्तमाः | सूरसिंहमहीपालमहामात्रा महौजसः || २१५॥ drarat जसवन्ताख्यो जयराजो द्वितीयकः । तृतीयो जयमल्लाख्यो नामतोऽमी यथाक्रमम् ॥ आदिम त्रिषु नाऽभूत पुरुषायुषजीविनौ | आयुषः क्षयतोऽभूतां स्वर्गिणौ स्वर्गविष्ट |
२०१ - समं सदृशं ' बराबर' इति भाषा | आसीनौ उपविष्टौ समासीनौ ।
२१०- सुखानीव आचरन्ति सुखति । सर्वप्रातिपदिकेभ्यः क्विप् वाचारे-इति आचारे Sर्थे विपिप्रत्यये सर्वस्य क्विपो लोपे पचाद्यचि सुखन्तीति सुखाः सुखानीव आचरन्ति । २१७--पुरुषस्यायुः पुरुषायुषं अचतुरेति अजंतो निपातः । पुरुषायुषं जीवत इत्येवं शील पुरुषायुषजीविनौ ।
Aho ! Shrutgyanam