________________
६४ श्रीवल्लभोपाध्यायविरचितं
[नवमः तेषामग्रेऽस्म्यहं सूर सर्वदा किंमहर्दिकः । त्वदाज्ञाकारकः शश्वत्सेवकस्ते तथापि यत् ॥१६॥ इति से वाञ्छितं कर्तुं भव योग्यो मदाग्रहात् । कनकविजयायाऽत्र देह्याचार्यपदं मुदा ॥१६४॥ करवाणि यथालक्ष्मि चर्याचार्यपदोत्सवम् । फलं लक्षम्या लभे चाग्यमुत्पन्नायाः सुपुण्यतः ॥
-चतुर्भिः कलापकम् । श्रीधर्मविजयो नाम महोपाध्याय उद्गतः। तपागच्छेऽर्कवद् व्याम्नि प्रामाणिकशिरोमणिः ॥ सुकृतानां शुभोपायः सद्गुणश्रीलयालयः । नियंपाय उपाध्यायश्चारित्रविजयायः ॥१६७॥ तपाश्रीचारुलावण्यं लावण्यविजयोऽपि च । वृद्धोपाध्यायऋद्धायः शास्त्राध्यायपरायणः॥ पण्डिताः पण्डितोत्कृष्टाः श्रीधनविजयादयः । रञ्जितास्तद्गुणैस्तेऽपि मूरिं विज्ञपयन्निति ॥ इतीति किं तदाहकनकविजयाख्येऽस्मिन श्रीसूरिपदयोग्यता । अतः कुरु गुरुश्रेयः सहजूश्रावकोदितम् ॥१७॥ ततः मूरिः प्रसन्नोऽभूत्तद्वचोग्यकरोच सत् । चारुभिचाहुभिः कष्कः सुप्रसन्नो भवेनहि ॥ सहजरथ सन्तुष्टमनाः स्वगृहमागमत् । तदैवाचालयत्रैष्यानाहातुं श्रावकान घनान् ॥१७२॥ श्रीमदहम्मदावादे स्तम्भतीर्थे च पत्तने । एवमादिषु सर्वषु नगरेष्वपरेष्वपि ॥२७३॥ युग्मम् । समाजग्मुस्तदातास्तत्रत्यास्ते महाजनाः । उत्सुका वन्दितुं तं च द्रष्टुं मूरिपदोत्सवम् ॥ अमण्डयच्छुभे स्थाने मण्डपं कार्यपण्डितः । विचित्रचित्रसंयुक्तवस्त्रैर्नेत्रोत्सवपदम् ॥१७॥ पञ्चवर्णात्मको मेघ इवाभाति स मण्डपः । विचित्रैः प्रचुरासारैः प्रवर्षन् हर्षयन् जनान् ॥ दुष्कालान् दुःखसन्दोहान् निरस्यन् दुस्सहान् भृशम् ।
___ क्षोभयन् द्विषतां हृदि दारिद्रयाणि नृणां क्षणात् ।।१७७॥ युग्मम् । पञ्चवर्णानि वस्त्राणि मुखमल्लादिकानि हि । भित्रसन्ध्येकसन्धीनि यत्राभ्राणि विरेजिरे ॥ कुत्रचित् यत्र भान्ति स्म पीनकौशेयसंचयाः । विद्युताम्बरझात्कारा मध्यस्था निर्गता बहिः॥ नयनानन्दिनं नन्दि मण्डपे सोऽभ्यमण्डयत् । शोभमानं चतुर्दिक्षु चतुरादिजिनादिभिः॥
१६३-कुत्सितो महाकः किंमहींधक अत्र किमित्यव्ययं निन्दार्थम् । १६९-तद्गुणैः कनकविजयगुणैः । २७४-तमिति श्रीविजयदेवसूरिम् । १७५-कायें अर्थाद्धर्मकार्ये पण्डितः कार्यपण्डितः सहजूश्रावक इत्यर्थः ।
१७७-मण्डपो जनाश्रयः पुनपुंसकलिङ्गः। 'मण्डपोऽस्त्री जनाश्रय' इत्यमरः । 'आसारो वेगवान् वर्षे इति हैमः ।
१७८-यत्रेति मण्डपे मेघे च । १७९-यत्रेति मण्डपे मेधे च ।
Ahol Shrutgyanam