________________
६२,
सर्गः]
विजयदेवसूरि-माहात्म्यम् भावितात्माथ देवीति सूरीन्द्र प्रत्यबोधयत् । कनकविजयः शिष्यो भविता ते गच्छनायकः ॥ अमूदृक्षोऽपरो दक्षो न विपक्षापनायकः ।
स्थूललक्षो लसत्पक्षो गुणलक्षोऽक्षदर्शकः ॥१४८॥ युग्मम् । विजयदेवसूरीन्द्रमित्यावेद्य न्यवर्तत । आज्ञया मूरिराजस्य ततः शासनदेवता ॥१४९॥ उज्ज्वलान्माघमासस्य दिनाषष्ठादथाद्भतात् । दिने वैशाखमासस्य तृतीये मञ्जुलोज्ज्वले॥१५०॥ शस्ते प्रभाते संजाते परदेशमहाजनाः । आगता वन्दितुं तत्र ज्योतीरूपं जगद्गुरुम् ॥१५१|| रत्नसिंहादयोऽप्यन्ये साबलीग्रामवासिनः । विधायानेकधानेकान ववन्दुस्तं महोत्सवात् ॥ रत्नसिंहस्तथान्येऽपि परदेशमहाजनाः। ददु रूप्याण्यनेकानि जातस्पर्धी बुधा इव ॥१५३।। सहजृः समयेऽथास्मिन् कृतपूर्वलसद्वचाः । सुश्रीडरपुराद्धातुभमुश्चच्छ्रीगुरुं नरम् ॥१५४॥ ततः श्रीसहप्रैष्यः साबलीग्राममाययौ । ददौ च शिरसा नत्वा श्रीसूरेः करपङ्कजे ॥१५॥ पत्रं प्रवाच्य सूरीन्द्रः स्वकाकारणवेदकम् । रत्नसिंहाभिधं श्राद्धं तदा प्राज्ञापयन्मुदा ॥१५६॥ सोऽप्यवादीत्तदा मूरि तोषाय सहजूहृदः । गच्छ स्वच्छमते गच्छनाथ स्वहितमाचर ॥ पाचालीत्परमप्रीत्या महताडम्बरेण च । श्रीभूरिभूरिभिः श्राद्धैः साधुभिश्च सह श्रिया ॥ श्रुत्वाथ सहजूः मूरि सामायातं पुरान्तिके । श्रीसन्युतोऽगच्छत् सम्मुखीनो नृणामिनः ॥ अभिनम्य निशम्योपदेशं च श्रीगुरूदितम् । सहजूर्हर्षितः मूरिं समानयदुपाश्रये ॥१६०॥ ददौ धर्माशिषं पूज्य श्रीसंघाय विशेषतः । अभ्युत्तस्थौ ततः सः तस्मै रूप्याण्यदाच सः॥ क्षण लब्धै कदेत्याह सहविनयाद्गुरुम् । श्रावकास्तव भूयांसः सन्त्यन्येऽपि महद्धिकाः ॥१६॥
१४७-भावितो वासितो मिश्रितोऽर्थात् ज्ञानेनात्मा चित्तं यस्याः सा भावितात्मा । ज्ञातगच्छभारसारसूरिमन्त्राधारश्रीकनकविजयोपाध्यायेत्यर्थः अथेति ज्ञाताऽनन्तरम्। आत्मा चित्ते धृतौ यत्ने' इत्यनेकार्थः। स्थूललक्षो वहुप्रदः। यद् हैम:-'स्थूललक्षदानशाण्डौ बहुप्रदे' इति! 'अक्षद. र्शकः न्यायानां द्रष्टा, द्रष्टा तुं व्यवहाराणां प्राड्विवाकोऽक्षदर्शक:' इति हैमः । 'विवादानुगतं पृथ्वा स सभ्यस्तत्प्रयत्नतः। विचारयति येनासौ प्राह विवाकस्ततः स्मृत'-इति कात्यायनः। लसन्तः पक्षाः सखायः सहाया वा यस्य स लसत्पक्षः । लसन् पक्षो बलं यस्येति वा लसत्पक्षः । यद्वा लसन्पक्ष: साध्यं यस्य स तथा । अथवा अकारप्रश्लेषात अलसत्पक्ष:-न विद्यते लसन् पक्षो विरोधो यस्य सः अलसत्पक्षः। ' पक्षस्तु मासार्धे गृहसाध्ययोः। चुल्ली रन्ध्र बले पार्श्वे सख्यौकेशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुजरे ' इति सर्वत्र हैमः ।
१५४-कथंभूतः सहजूः कृतं विहितं पूर्व प्रथमं लसद्विलसद्वचः श्रीकनकविजयोपाध्यायस्य आचार्यपददापनमहोत्सवाविधानलक्षणं वचनं येन स कृतपूर्वलसद्वचाः ।
१६१-स सहजू: श्रावक इति शेषः।
Ahol Shrutgyanam