________________
६२
श्रीवल्लभोपाध्याय विरचितं
[ नवमः
नु
सौम्यचन्द्रो न सूर्यो न प्रतापान्नु सरोरुहम् । सौरभ्याद्वदनं तस्या इति प्रज्ञाश्चिराद्विदुः ॥ ( सौरभ्यादागतौ तस्यास्तमितिज्ञाविराद्विदुः इत्यपि पाठान्तरम् ) देवा देवगुरुयन्ति यां सदा स्वभावतः । दैत्या दैत्यगुरूयन्ति सा ददातु सदा मुदः || १४१|| fe सा शासनधीशा तं तदेत्यवदन्मुदा । श्रीवल्लभ उपाध्याय उपश्लोकयति स्म याम् ॥ इतीति किं तदाह
श्री पूज्यराज कार्य ते मदाकारणकारणम् । प्रसद्य तद्वद त्वं मां करवाणि त्वदाज्ञया || १४३ || ध्यानं सूरिः परित्यज्य तामवोचद्विचारवित् ।
भूयांसः सन्ति मे शिष्याः अभिषिञ्चानि के प्रति || १४४|| श्रीसूरिति विज्ञता सूरिमन्त्रस्य देवता । क्षणमात्रं तदा तस्थौ ध्याननिश्चललोचना ॥१४५॥ प्रणिधानेन साऽपश्यत् तपागच्छप्रकाशकम् | कनकविजयं शिष्यमुपाध्यायं जगज्जयम् ॥
यथा भ्रमराः कमलिनीभ्य उद्विग्नाः कमालनीः परित्यज्य प्रोद्भूताऽतिसुराभनवीन कुसुमगुच्छां लतां सम्मुखं यान्ति तथा रमणीयरूपा अपि स्वकीय परिणीतस्त्रीः परित्यज्य मर्त्याः शासन देवतामभिमुखं यान्तीति भावार्थः । अत्र तामिति पदस्य वल्लीत्युपमानं, मर्त्या इत्यस्यालिन इत्युपमानं, स्वीरित्यस्य पद्मिनीरित्युपमानम् । स्त्रीरित्यत्र वाऽमूशसोरिति वैकल्पिको न इयङ् ।
१४० - तस्याः शासनदेव्या आगतौ आगमने ज्ञा:- पण्डिताः तां - शासनदेवतां इति चिराद्विदुः ज्ञातवन्तः । इतीति किं ? त्रयोऽध्यत्र तु शब्दा अव्यया वितर्कार्थाः | सौम्यात्किं चन्द्रः 1 प्रतापाकिं सूर्यः? सौरभ्यात्कि सरोरुहं-कमलमिति । सौरभ्याद्वदनं तस्या इति प्रज्ञाश्चिराद्विदुरिति पाठे -तस्याः शासनदेव्या वदनं प्रज्ञाः पण्डिता इति चिराद्विदुः । शेषं सर्वे प्राग्वत् ।
१४१-सा पूर्वोक्तप्रकारवर्णिता शासनदेवता सदा मुदो ददातु । साका ? यां सदा स्वप्रभावत आत्मीयोत्कटस्वतः देवा देवगुरूयन्ति बृहस्पतिमिवाचरन्ति । यां दैत्या दैत्यगुरुवन्ति शुक्रमिवाचरन्ति | देवगुरूयन्ति दैत्यगुरुयन्ति-अत्रोभयत्र उपमानाद्दाचारे इति क्यच्प्रत्ययः । अकृत्सार्वधातुकेति दीर्घश्च । सप्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः ।
१४२ - द्वात्रिंशता श्लोकैरुपस्तौति - उपश्लोकयति । णाविष्टवत् प्रातिपदिकस्येति णौरूपं उपश्लोकयति स्म । द्वात्रिंशता श्लोक रस्तौदित्यर्थः ।
१४४ - अभिषिवानि के स्वपदे न्यस्यानि स्थापयानीत्यर्थः । अभिषिश्चानीति 'आशिषि लिङ्क लोटौ' इत्याशिषि लोटि, मेनिरिति मेनि इत्यादेशे आडुत्तमस्य विचेति आडागमे, उत्तमपुरुषैकवचनम् !
१४६ - प्रणिधानेन समाधिना । प्रणिधानं प्रयत्ने स्यात्प्रवेशे च समाहिताविति विश्वः ।
Aho! Shrutgyanam
--